________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कस्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथ,प्रत्यर्थीति विनीत इत्यशठ इत्यौचित्यकारीति च । दाक्षिण्यीति दमीति नीतिभृदिति स्थै-ति धैर्योति सद्,
धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया ॥२॥ व्याख्या-कल्या०॥ कल्याण:-शुभः, अभिनिवेशः-मनःपरिणामो यस्येति कल्याणाभिनिवेशवान् इति । गुणग्राहीति। मिथ्यापथस्य -कुमार्गस्य प्रत्यर्थी-वैरी, इति । विनीत इति । अशठः-सरल(इति) औचित्यकारीति-योग्यताकारीति । च-पुन: दाक्षिण्यीति । दमी-जितेन्द्रिय इति । नीतिभृत्-न्यायमार्गधारक इति। स्थै-- स्थिरत्ववान् इति । धैर्या-धीरत्ववानिति । सद्धर्मस्यार्थीति । विवेकवानिति । सुधी:सुबुद्धिरिति । हे शिष्य ! एवंगुणविशिष्टस्त्वम्, अत एव मयोच्यसे त्वमिति, त्वां प्रत्यहं वच्मीति काव्यार्थः ॥२॥
इह किल कलिकालव्यालवक्त्रान्तराल-स्थितिजुषि गततत्वप्रीतिनीतिप्रचारे। प्रसरदनवबोधप्रस्फुरत्कापथौघ,-स्थगितसुगतिमार्गे सम्प्रति प्राणिवर्गे ॥ ३ ॥
प्रोत्सर्पद्भस्मरासिग्रहसखदशमाश्चर्यसाम्राज्यपुष्य,मिथ्यात्वध्वान्तरुद्धे जगति विरलतां यति जैनेन्द्रमार्गे । सक्लिष्टद्विष्टमूढप्रखलजडजनाम्रायरक्तर्जिनोक्ति,
प्रत्यर्थी साधुवेषैर्विषयिभिरभितः सोऽयमप्राथि पन्थाः ॥ ४ ॥ व्याख्या-इह० ॥ प्रो०॥ विषयिभिः-विषयसेवकैः साधुवेषैः-लिङ्गधारिभिर्हानाचारैः चैत्यवासिभिः अभितः-समन्तात् सोऽयं पन्था-मार्गः अप्राथि-विस्तारितः। क सति ? सम्प्रति इह-दुष्पमाकाले किलेति सत्ये प्राणिवर्ग एवं विधे सति । कथम्भूते प्राणिवर्गे ? कलिकाल एव-दुषमाकाल एव व्याल:-सर्पस्तस्य वक्त्रान्तरालं-मुखान्तरालं, तत्र स्थितिः-स्थानं तां जुषते-सेवते यः सः। पुनः कथम्भूते १ गततत्वप्रीतिनीतिप्रचारे-गतो तत्वप्रीतिः, नीतिप्रचारश्च न्यायप्रचारस्तौ यस्य सः। पुनः कथम्भूते ? प्रसरत्-प्रसरणशीलो योऽनवबोध:-अज्ञानं तेन प्रस्फुरत्कापथौधः-कुमार्गसमूहस्तेन स्थगित:-आच्छादितः सुगतिमार्गः-देवगत्यादिसम्बन्धो यस्य सः ॥३॥ पुनः क सति ? जगति जैनेन्द्रमार्ग विरलतां याति सति । कथम्भूते जैनेन्द्रमार्गे ? "प्रोत्सर्प" प्रोत्सर्पन्-उल्लसत् यः भस्मराशिग्रहस्तस्य सखा-मित्रं यद्दशमाश्चर्यम्असंयतिपूजालक्षणं तस्य साम्राज्यं तेन पुष्यन्-प्रवर्द्धन मिथ्यात्वमेव ध्वान्तं-तमस्तेन
For Private And Personal Use Only