________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रुद्धे । कथम्भूतः साधुवेषः १, सशक्लिष्टो-रौद्राध्यवसायवान् द्विष्टो-मत्सरी मूड:-मूस्खे प्रखल:-दुर्जनः जड:-दुर्मेधा एवम्भूतो यो जनस्तस्य सहस्तस्य आम्नाया-परम्परा तत्र रक्तैः । कथम्भूतः पन्था ? जिनोक्तेः-भगवदचनस्य प्रत्यर्थीति काव्यार्थः ॥ ४ ॥ अथ द्वारमाह
यत्रौदेशिकभोजनं जिनगृहे वासो वसत्यक्षमा, स्वीकारोऽर्थगृहस्थयचैत्यसदनेष्वप्रेक्षिताद्यासनम् । सावयाचरितादरः श्रुतपथाऽवज्ञा गुणिद्वेषधीः,
धर्मः कर्महरोऽत्र घेत्पथि भवेन्मेरुस्तदाऽब्धौ तरेत् ॥ ५ ॥ व्याख्या-यत्रो० ॥ यत्र मार्गे औदेशिकस्य-आधाकर्मणो भोजनम् ॥ १॥ जिन गृहे वास:-वसनम् ॥२॥ वसत्यक्षमा-वसतिम्-उपाश्रयं प्रति अक्षमामात्सर्यम् ॥३॥ अर्थः॥ ४॥ गृहस्थः ॥५॥ चैत्यसदनेषु-चैत्यगृहेषु स्वीकार ॥ ६ ॥ अप्रैक्षितादि-अप्रमार्जितादि आसनम् ।। ७॥ सावद्याचरणायामादरः ॥८॥ श्रुतपथस्य-सिद्धान्तमार्गस्य अवज्ञा-हीला ॥९॥ गुणिषु द्वेषधीः ॥१०॥ अत्र पथेदशद्वारसंयुक्ते चेद्-यदि धर्मः कर्महरः स्यात्तदा मेरुपर्वते 'अन्धौ तरेत्' इति निषेधवाक्य, कदापि न भवति ॥५॥ औदेशिकभोजनद्वारं व्याख्यानयति
षटकायानुपमर्थ निर्दयमृषीनाधाय यत्साधितं, शास्त्रेषु प्रतिषिध्यते यदसकृन्निस्तुंशताऽऽधायि यत् । गोमांसाधुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यधः,
तत्को नाम जिघत्सतीह सघृणः सङ्घादिभक्तं विदन् ॥ ६ ॥ व्याख्या-षट् ॥ षट्कायान्-पृथिव्यादीन् निर्दयम् उपमद्य-आरम्य यद् आधाकर्म ऋषीन-साधून् आधाय-मनस्यवधार्य साधितं-निष्पादितं यत् शास्त्रेषु असकत-वारंवारं प्रतिषिध्यते, यत्पुनर्निस्त्रिं (स्त)शताधायि-निस्त्रिंशताया:-निःशूकत्वस्य आधायि-कारकं यद् गोमांसाधुपम-गोमांसादितुल्यमाहुस्तीर्थकराः, अथ यद्अशनं भुक्त्वा यतिः अध:-नरके याति । एवं दक्षणस्थानमाधाकर्म तत् सङ्घादिनिमित्तमशनं तदिति कोमलामन्त्रणे इह-जगति कः सघृणः-सदयो जिघित्सति-भोक्तुमिच्छति ? किं कुर्वन् ? विदन्-जानन्, एतावता ज्ञात्वा न कोऽपि भोतुमिच्छतीति ॥ ६ ॥
For Private And Personal Use Only