________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयद्वारमाह--
गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्ग,प्रेतत्पुष्पनगुद्यन्मृगमदलसदुल्लोचचञ्चजनौघे । देवद्रव्योपभोगध्रुवमठपतिताऽऽशातनाभ्यनसन्तः,
सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽर्हन्मतज्ञा वसन्ति ॥७॥ व्याख्या-गाय० ॥ जिनगृहे अर्हतचैत्ये अर्हन्मतज्ञा-अर्हन्मतज्ञातारः सन्तः खलु-निश्चितं न वसन्ति । कथम्भूते चैत्ये ? गायद्गन्धर्वाः गायन्तो गन्धर्वा यत्र, नृत्यन्ती पणरमणी-वेश्या यत्र, रणद्वेणुः-रणन्त-शब्दं कुर्वन्तो वेणवो-वंशा यत्र, गुअन्तो मृदङ्गाः-मृदला यत्र तद् गुज्जन्मृदङ्ग, प्रेत्पुष्पसक-प्रेवन्त्यो-लहलहाय. मानाः पुष्पस्रजः-पुष्पमाला यत्र, उद्यत्-समुच्छलद्गन्धो-मृगमदः-कस्तूरिका यत्र, लसन्तः दीप्यमानाः उल्लोचा:-चन्द्रोदया यत्र, चञ्चजनौष:-चश्चन्त:-महाधनवस्त्रादिभूषणभूषिता जनौघा:-श्रावकसङ्घा यत्र स सर्वपदै कयसमासः। चैत्ये एतत्सर्वे भवति । किम्भूताः सन्तः ? देव० देवद्रव्यस्योपभोगं ध्रुवं निश्चितं या मठपतिता आशातना च ताम्बूलभक्षणशयनासनादिरूपा, ताभ्यः वसन्तः । कथम्भूते चैत्ये? सद्भक्तियोग्ये, एतावता चैत्यभक्तिः कार्या, तत्र वासो न कार्यः ॥ ७ ॥
तृतीयद्वारमाहसामाजिनैर्गणधरैश्च निषेवितोक्तां, निस्सङ्गताऽग्रिमपदं मुनिपुङ्गवानाम् । शय्यातरोक्तिमनगारपदं च जानन् , विद्वेष्टि कः परगृहे वसति सकर्णः ॥ ८ ॥
व्याख्या-साक्षा० ॥ कः सकर्णः-विद्वान् परगृहे-श्रावकोपाश्रये वसतिस्थानं विद्वेष्टि-तत्र द्वेषं धत्ते अपितु न कोऽपि । कथम्भृतां वसति? साक्षाजिन:-तीर्थकरैः, गणधरैश्च-गौतमादिभिः निषेवितोक्तां-निषेविता-सेविता उक्ता च भव्येभ्यः। पुन: किम्भूतां वसतिं ? मुनिपुङ्गवानां-मुनिप्रवराणां निस्सङ्गताग्रिमपदं-निस्सङ्गताया अग्रिम-प्रधान पद-स्थानं परगृहे वसतां साधूनां सङ्गोऽपि न स्यात् । सकर्णः किं कुर्वन् । शय्यातरोक्ति शय्यया-वसत्या तरति संसारसागरमिति शय्यातरस्तस्य उक्ति:-कथनं, च पुन:-अनगारपदं, न विद्यते अगारं-गृहं यस्य सः अनगारस्तस्य पदं जानन्, एतावता अनगारस्य श्राद्धगृहे वसनमेव श्रेयः ॥ ८ ॥
For Private And Personal Use Only