________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनरपि तद्द्वारमेनाहचित्रोत्सर्गापवादे यदिह शिवपुरीदूतभूते निशीथे, प्रागुक्ता भूरिभेदा गृहिगृहवसती: कारणेऽपोद्य पश्चात् । श्रीसंसक्तयदियुक्तेऽप्यभिहितयतनाकारिणं संयताना, सर्वत्रागारिधाम्नि न्ययमि न तु मतः कापि चैत्ये निवासः ॥ ९॥
व्याख्या-चित्रो० ॥ यत्-यस्मात् , इह-प्रवचने निशीथे-निशीथग्रन्ये निशीथनाम्नि छेदग्रन्थे सर्वत्र अगारधाम्नि-श्राद्धगृहे संयताना-साधूनां निवासो न्ययमि-नियमेन प्रतिपादितः । कथम्भृते निशीथे ? चित्रोत्सर्गापवादे-चित्रौ-नानाप्रकारौ उत्सर्गापवादौ नयौ यत्र तत्, तत्र नयद्वयस्य विस्तरव्याख्याऽस्तीति । पुनः किम्भूते ? शिवपुरीदूतभृते-शिवपुर्या:-मोक्षनगर्या दूतभूते तत्र ग्रन्थे प्राक्-प्रथम भूरिभेदाः-अनेकप्रकाराः गृहिगृहवसती:-गृहिणं गृहमेव वसतयः-उपाश्रयास्ता उक्त्वा पश्चात्कारणे सति अपोद्य-अपवादविषयीकृत्य पूर्वमुत्सर्गेण 'स्त्रीसंसक्तयादियुक्त उपाश्रये न वस्तव्यं साधुना' इत्युक्तं पश्चादपवादमार्गेण तत्र वसनीयमित्यपि प्रोक्तम् । कथम्भूते अगारधाम्नि ? स्त्रीसंसक्त्यादियुक्तेऽपि-स्त्रीपशुपण्डकानां संसर्गादियुक्तेऽपि वसनीयम् । कथम्भूतानां संयतानाम् ? अभिहित-यतनाकारिणाम्-अभिहिता-प्रोक्ता या यतना-परिच्छदादानरूपा तत्कारिणाम् । एवमुत्सर्गेण अपवादेनापि गृहस्थगृह एव वसनीयं न पुनः क्वापि चैत्ये निवासोऽनुमतः ॥ ९ ॥
प्रव्रज्याप्रतिपन्थिनं ननु धनस्वीकारमाहुर्जिनाः, सर्वारम्भिपरिग्रहं त्वतिमहासावद्यमाचख्यते । चैत्यस्वीकरणे तु गर्हिततमं स्यान्माठपत्यं यते,
रित्येवं व्रतवैरिणीति ममता युक्ता न मुक्त्यर्थिनाम् ॥ १० ॥ व्याख्या-प्रब० ॥ ननु-निश्चितं जिनाः-तीर्थकराः धनस्वीकारम्-अर्थाङ्गीकार प्रव्रज्याप्रतिपन्थिनं-दीक्षाविरोधिनम् आहुः-कथयन्ति तु-पुनः सर्वारम्भिपरिग्रहं, सर्वारम्भिणां-गृहस्थानां परिग्रह-स्वीकारं ममैते गृहस्था इति, अतिमहासावधम् - अत्यन्तं महापापम् आचक्षते वदन्ति । तु-पुनः यते:-साधोः चैत्यस्त्रीकरणे-चैत्यममत्वे गर्हिततमम्-अत्यन्तगईणीयं माढपत्यं-महपतित्वं स्यात् । इत्येवप्रकारेण मुक्तार्थिनां
For Private And Personal Use Only