________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुक्तेः प्रार्थकानां साधूनां ममता न युक्ता, कथम्भूता ममता ? व्रतवैरिणी, इति- अर्थ - गृहस्थ चैत्यस्वीकारः । इति द्वास्त्रयं व्याख्यातम् ॥ १० ॥
भवति नियतमत्रा संयमः स्याद्विभूषा, नृपतिककुद्मेतल्लोकहासश्च भिक्षोः । स्फुटतर इह सङ्गः सातशीलत्वमुबै - रिति न खलु मुमुक्षोः संगतं गद्विकादि ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - भवति० ॥ अत्र - गब्दिकाद्यासने नियतं - निश्चितम् असंयमो भवति गब्दिकादीनां प्रतिलेखयितुमशक्यत्वात् । विभूषा - शोभा स्यात् महापुरुषसेवनीयत्वात् । एतद्-आसनसेवनं नृपतिककुदं - राजचिह्नं च पुनः भिक्षोः - साधोः लोकहासः स्यात् 'अहो ! मुण्डितोऽप्येवंविधासनेषु उपविशति' इह गब्दिआसने संगपरिग्रहः स्फुटतरःप्रकटतरः उच्चैः-अत्यर्थं सातशीलत्वं - सुखलम्पटत्वम् । इति हेतोः खलु निश्चितं मुमुक्षो:साधोः गब्दिकादि, आदिशब्दात् मसूरकसिंहासनादेः परिग्रहः, तत् न संगतं न युक्तम् । अप्रेक्षिताद्यासनद्वारं व्याख्यातम् ॥ ११ ॥
सावद्याचरितद्वारमाह
गृही नियतगच्छभाग जिनगृहेऽधिकारो यतेः, प्रदेयमशनादि साधुषु यथा तथाऽरम्भिभिः । व्रतादिविधिवारणां सुविहितान्तिकेऽगारिणां गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतं ॥ १२ ॥
-
व्याख्या - गृही ० ॥ गृही - श्रावकः नियतगच्छभाकू, नियतं - निश्चितं स्वगच्छमेव भजतीति नियतगच्छभाक्, स्वगच्छं मुक्त्वाऽन्यत्र न गन्तव्यम्, यतेः - साधोःजिनगृहे-चैत्येऽधिकारः-तच्चिन्ताकरणं 'प्रदेयमशनादी ' त्यादि, आरम्भिभिः - गृहस्थैः साधुषु अशनादि - अशनपानखादिमस्वादिमादि यथातथा येन तेनापि प्रकारेण प्रदेयं तत्राशुद्धदानेऽपि दोषो न अगारिणां गृहस्थानां सुविहितान्तिके - साधुसमीपे व्रतादिविधवारणं साधुसमीपे शीलवतादि नाङ्गीकरणीयं गतानुगतिकैः - एडकावत्प्रवाहपतितैः चैत्यवासिभिः अदः - पूर्वोक्तम् असंस्तुतम् - अयुक्तं कथं केन प्रकारेण प्रस्तुतंप्रारब्धम् ।। १२ ।।
श्रुतपथावज्ञाद्वारमाह
निर्वाहार्थमुज्झितं गुणलवैरज्ञातशीलान्वयं,
तादृगू वंशजतद्गुणेन गुरुणा स्वार्थाय मुण्डीकृतम् ।
द्विख्यातगुणान्या अपि जना लग्नोप्रगच्छप्रहा, -
देवेभ्योऽधिकमर्चयन्ति महतो मोहस्य तज्जृम्भितम् ॥ १३ ॥
For Private And Personal Use Only