________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-निर्वाहा० ॥ यत्-यस्मात्कारणात् एवंविधा जना एवंविधं गुरुं देवेभ्योऽधिकमर्चयन्ति तत् महत:-प्रबलस्य मोहस्य-मोहनीयकर्मणो जृम्भितंमहात्म्यम् । कथम्भूतं गुरुं ? निर्वाहाथिनं-निर्वाहस्य-उदरभरणस्यार्थिनम् । पुनः किम्भूतम् ? गुणलवैः-गुणलेशैः उज्झितं-त्यक्तम् । पुनः किम्भूतम् ? अज्ञातशीलान्वयम्अज्ञातं शोलम्-आचारः अन्वयश्व-कुलं यस्य स (तम् ।) पुनः किम्भूतम् ? ताहग्वंशज. तद्गुणेन गुरुणा शिष्यतुल्याज्ञातादिवंशेन तद्गुणेन-शिष्यतुल्यगुणेन एवं विधेन गुरुणा स्वा. र्थाय-स्वोदरभरणाय मुण्डीकृतं तादृशतादृशमेवं मुण्डयते । कथम्भूता जनाः विख्यात. गुणान्वया अपि विख्याता:-प्रसिद्धाः गुणान्वयो वंशो येषां ते सगुणाः-सुकुलोत्पन्ना अपि । पुनः किम्भूताः ? लनोग्रगच्छग्रहाः, लग्न उग्रः-उत्कटो गच्छग्रहो येषां ते ॥१३॥ पुनरप्येतद्द्वारमाह
दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्मबुद्धिर्नृणां, जातायामपि दुर्लभः शुभगुरुः प्राप्तः स पुण्येन चेतू । कत्तुं न स्वहितं तथाऽप्यलमभी गच्छस्थितिव्याहताः,
कं ब्रूमः कमिहाश्रयेमहि कमाराध्येम किं कुर्महे ॥ १४ ॥ व्याख्या-दुप्पापा० ॥ गुरुकर्मसंचयवतां-गुरुकर्मसमूहवतां नृणां सद्धर्मबुद्धिः-प्रधानधर्मबुद्धिः दुष्प्रापा गुरुकर्मत्वात् सद्धर्मबुद्धिन कदाचित् सद्धर्मबुद्धौ जातायामपि पुनरपि शुभगुरुः दुर्लभः-दुष्प्रापः चेद्-यदि स गुरुः पुण्येन प्राप्तः, तथापि-एवं सामग्रीयोगेऽपि अमी श्राद्धाः स्वहितं कत्तुं नालं-न समर्थाः । कथम्भूता जनाः ? गच्छस्थितिव्याहताः-गच्छस्थित्या-गच्छमर्यादया व्याहता:-वशीकृताः। एवं स्थिते के पुरुषं ब्रूमः, कं पुरुषम् इह-जगति आश्रयेमहि-शरणं प्रपद्यमहि, कं पुरुषम् आराध्येमहिआराध्यामः किं कुर्महे ॥ १४ ॥
क्षुत्क्षामः किल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये क्वचित् , कृत्वा कश्चन पक्षमक्षितकलिः प्राप्तस्तदाचार्यकम् । चित्रं चैत्यगृहे गृही यति निजे गच्छे कुटुम्बीयति,
वं शक्रीयति बालिशीयति बुधान् विश्वं वराकीयति ॥ १५ ॥ व्याख्या-क्षुत्क्षाम० ॥ किलेति संभावनायां कोऽपि क्षुत्क्षाम:-क्षुधया थामः-क्षीणः क्षुत्क्षामः एवम्भूतो रङ्कशिशुक:-रङ्कस्यबालः स वैराग्याभावेऽपि क्वचित्
For Private And Personal Use Only