Book Title: Sanghpattak
Author(s): Harshraj Upadhyay
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मुक्तेः प्रार्थकानां साधूनां ममता न युक्ता, कथम्भूता ममता ? व्रतवैरिणी, इति- अर्थ - गृहस्थ चैत्यस्वीकारः । इति द्वास्त्रयं व्याख्यातम् ॥ १० ॥ भवति नियतमत्रा संयमः स्याद्विभूषा, नृपतिककुद्मेतल्लोकहासश्च भिक्षोः । स्फुटतर इह सङ्गः सातशीलत्वमुबै - रिति न खलु मुमुक्षोः संगतं गद्विकादि ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - भवति० ॥ अत्र - गब्दिकाद्यासने नियतं - निश्चितम् असंयमो भवति गब्दिकादीनां प्रतिलेखयितुमशक्यत्वात् । विभूषा - शोभा स्यात् महापुरुषसेवनीयत्वात् । एतद्-आसनसेवनं नृपतिककुदं - राजचिह्नं च पुनः भिक्षोः - साधोः लोकहासः स्यात् 'अहो ! मुण्डितोऽप्येवंविधासनेषु उपविशति' इह गब्दिआसने संगपरिग्रहः स्फुटतरःप्रकटतरः उच्चैः-अत्यर्थं सातशीलत्वं - सुखलम्पटत्वम् । इति हेतोः खलु निश्चितं मुमुक्षो:साधोः गब्दिकादि, आदिशब्दात् मसूरकसिंहासनादेः परिग्रहः, तत् न संगतं न युक्तम् । अप्रेक्षिताद्यासनद्वारं व्याख्यातम् ॥ ११ ॥ सावद्याचरितद्वारमाह गृही नियतगच्छभाग जिनगृहेऽधिकारो यतेः, प्रदेयमशनादि साधुषु यथा तथाऽरम्भिभिः । व्रतादिविधिवारणां सुविहितान्तिकेऽगारिणां गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतं ॥ १२ ॥ - व्याख्या - गृही ० ॥ गृही - श्रावकः नियतगच्छभाकू, नियतं - निश्चितं स्वगच्छमेव भजतीति नियतगच्छभाक्, स्वगच्छं मुक्त्वाऽन्यत्र न गन्तव्यम्, यतेः - साधोःजिनगृहे-चैत्येऽधिकारः-तच्चिन्ताकरणं 'प्रदेयमशनादी ' त्यादि, आरम्भिभिः - गृहस्थैः साधुषु अशनादि - अशनपानखादिमस्वादिमादि यथातथा येन तेनापि प्रकारेण प्रदेयं तत्राशुद्धदानेऽपि दोषो न अगारिणां गृहस्थानां सुविहितान्तिके - साधुसमीपे व्रतादिविधवारणं साधुसमीपे शीलवतादि नाङ्गीकरणीयं गतानुगतिकैः - एडकावत्प्रवाहपतितैः चैत्यवासिभिः अदः - पूर्वोक्तम् असंस्तुतम् - अयुक्तं कथं केन प्रकारेण प्रस्तुतंप्रारब्धम् ।। १२ ।। श्रुतपथावज्ञाद्वारमाह निर्वाहार्थमुज्झितं गुणलवैरज्ञातशीलान्वयं, तादृगू वंशजतद्गुणेन गुरुणा स्वार्थाय मुण्डीकृतम् । द्विख्यातगुणान्या अपि जना लग्नोप्रगच्छप्रहा, - देवेभ्योऽधिकमर्चयन्ति महतो मोहस्य तज्जृम्भितम् ॥ १३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132