________________
२२२ स्वामिकार्तिकेयानुप्रेक्षा
[गा० ३१२चतुष्टयापेक्षया द्रव्यं तत्त्वमस्तीत्यर्थः । १ । स्यान्नास्ति, स्यात् कथंचित् विवक्षितप्रकारेणापरद्रव्यादिचतुष्टयापेक्षया द्रव्य नास्तीत्यर्थः । २ । स्यादस्तिनास्ति, स्यात् कथंचित् विवक्षितप्रकारेण क्रमेण खपरद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति नास्ती. त्यर्थः । ३ । स्यादवक्तव्यम्, स्यात् कथंचित् विवक्षितप्रकारेण युगपदक्तुमशक्यत्वात् 'क्रमप्रवर्तिनी भारती इति वचनात् युगपत् खपरद्रव्यादिचतुष्टयापेक्षया द्रव्यमवक्तव्यमित्यर्थः । ४ । स्यादस्त्यवक्तव्यम्, स्यात् कथंचित् विवक्षितप्रकारेण खद्रव्यादिचतुष्टयापेक्षया युगपत्स्वपरद्रव्यादिचतुष्टयापेक्षया च द्रव्यम् अस्त्यवक्तव्यमित्यर्थः । ५। स्थानास्त्यवक्तव्यम् , स्यात् कथंचित् विवक्षितप्रकारेण परद्रव्यादिचतुष्टयापेक्षया युगपत् स्वपरद्रव्यादिचतुष्टयापेक्षया च द्रव्यं नास्त्यवक्तव्यमित्यर्थः । ६। स्यादस्तिनास्त्यवक्तव्यम् , स्यात् कथंचित् विवक्षितप्रकारेण क्रमेण स्वपरद्रव्यादिचतुष्टयापेक्षया युगपत्वपरद्रव्यादिचतुष्टयापेक्षया च द्रव्यमस्तिनास्त्यवक्तव्यमित्यर्थः । ७ । “एकस्मिन्नविरोधेन प्रमाणनयवाक्यतः । सदादिकल्पना या च सप्तभङ्गीति सा मता ॥” इति सप्तभङ्गः । सप्तैव भङ्गाः प्रकाराः नाधिका न न्यूनाः । सप्तैव कुतः । लोकानां व्यावहारिकजनानां पारमार्थिकजनानां च प्रश्नवशात् । जीवो अस्ति । कुतः । स्वद्रव्यचतुष्टयापेक्षातः । जीवो नास्ति । कुतः । परद्रव्यचतुष्टयापेक्षातः । एवं शेषभङ्गेषु योज्यम् । च पुनः । किमर्थम् । व्यवहारप्रवर्तनाथ, प्रवृत्तिनिवृत्त्यादिलक्षणो व्यवहारः, तस्य प्रवर्तनार्थम् । लोकव्यवहारस्तु अस्तिनास्त्यादिरूपः तत्प्रवृत्त्यर्थम् ॥ ३११॥
जो आयरेण मण्णदि' जीवाजीवादि' णव-विहं अत्थं ।
सुद-णाणेण णएहि य सो सद्दिट्टी हवे सुद्धो ॥ ३१२ ॥ [छाया-यः आदरेण मन्यते जीवाजीवादि नवविधं अर्थम् । श्रुतज्ञानेन नयैः च स सदृष्टिः भवेत् शुद्धः ॥] स पुमान् भव्यः शुद्धः पञ्चविंशतिसम्यक्त्वमलरहितः सदृष्टिः, सती समीचीना दृष्टिः दर्शनं यस्य स सदृष्टिः, सम्यग्दृष्टिः सम्यत्ववान् भवेत् स्यात् । स कः । यः पुमान् आदरेण निश्चयेन उद्यमेन च मन्यते निश्चिनोति निश्चयं करोति । के तम । अर्थ पदार्थम् । कतिमेदम् । जीवाजीवादिनवविधं, जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षपुण्यपापरूपं नवप्रकारम् । केन श्रद्दधाति । श्रुतज्ञानेन प्रमाणेन तर्कागमशास्त्रेण द्रव्यश्रुतभावश्रुतज्ञानबलाधानात् , च पुनः । कैः । नयैः नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसममिरुद्वैवंभूतनयैः द्रव्यार्थिकपर्यायार्थिकनयैश्च ॥ ३१२ ॥ सम्यग्दृष्टलक्षणं लक्षयति
अवक्तव्य-खद्रव्य आदि चतुष्टयकी अपेक्षा सत् तथा एक साथ दोनों धर्मोंकी विवक्षा होनेसे अवक्तव्य रूप तत्त्व है ५ । स्यात् नास्ति अवक्तव्य-परद्रव्यआदि चतुष्टयकी अपेक्षा असत् तथा एक साथ दोनों धर्मोकी विवक्षा होनेसे अवक्तव्यरूप तत्त्व है ६ । स्याद् अस्ति नास्ति अवक्तव्य-खद्रव्यादि चतुष्टयकी अपेक्षा सत्, पर द्रव्यादि चतुष्टयकी अपेक्षा असत् , तथा एक साथ दोनों धर्मोकी विवक्षा होनेसे अवक्तव्य रूप तत्त्व है ७ । इस तरह सातही भङ्ग होते हैं, न अधिक होते हैं और न सातसे कम होते हैं; क्योंकि व्यावहारिक जनोंके प्रश्न सातही प्रकारके होते हैं । तथा सात प्रकारके ही प्रश्न इस लिये होते हैं कि जिज्ञासा (जाननेकी इच्छा) सातही प्रकारकी होती है । और सातही प्रकारकी जिज्ञासा होनेका कारण यह है कि सात प्रकारके ही संशय होते हैं । और सात प्रकारके संशय होनेका कारण यह है कि वस्तुधर्म सात प्रकारका है । अत: प्रवृत्तिनिवृत्तिरूप व्यवहारके चलानेके लिये सप्तभंगीके द्वारा अनेकान्त रूप तत्त्वका श्रद्धान करनेवाला सम्यग्दृष्टि होता है। तथा जो श्रुतज्ञान और द्रव्यार्थिक तथा पर्यायार्थिक नयोंके द्वारा जीव, अजीव, आस्रव, बन्ध, संवर, निर्जरा, मोक्ष, पुण्य और पाप इन नौ तत्त्वोंको आदरके साथ मानता है वह भव्य पच्चीस दोष रहित शुद्ध सम्यग्दृष्टि है ।। ३११-३१२ ।। सम्यग्दृष्टिका और भी लक्षण कहते हैं । अर्थ-वह सम्यग्दृष्टि पुत्र, स्त्री आदि समस्त पदार्थोमें गर्व नहीं करता, उपशमभावको भाता है और
१ म मुणदि, ग मन्नदि । २ ब जीवाइ। ३ ब म सुअ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org