________________
३१६ स्वामिकार्तिकेयानुप्रेक्षा
[गा०४१८[छाया-दशविधधर्मयुतानां खभावदुर्गन्धाशुचिदेहेषु । यत् निन्दनं न क्रियते निर्विचिकित्सागुणः स खलु ॥] हु इति स्फुट, निश्चयतो वा, स निर्विचिकित्सागुणो भवति जुगुप्सारहितगुणः स्यात् । स कः। यत् न क्रियते न विधीयते। किं तत् । निन्दनं दोषोत्पादनं घृणाम् । केषु । स्वभावदुर्गन्धाशुचिदेहेषु दुर्गन्धाः पूतिगन्धाः अशुचयः अपवित्राः देहाः शरीराणि स्वभावेन सहजेन दुर्गन्धाश्च ते अशुचयश्च ते देहाः शरीराणि खभावेन सहजेन दुर्गन्धाश्च ते भशुचयश्च ते देहाः खभावदुर्गन्धाशुचिदेहाः तेषु स्वभावदुर्गन्धादिदेहेषु । केषाम् । दशविधधर्मयुक्ताना दशलाक्षणिकधर्मसहितानाम् उत्तमक्षमादिधर्मिष्ठानां महामुनीनां सहजेन दुर्गन्धापवित्रशरीरेषु निन्दनं घृणा न क्रियते । तथाहि भेदाभेदरत्नत्रयाराधकभव्यजीवानां दुर्गन्धबीभत्सादिकशरीरं दृष्ट्वा धर्मबुद्ध्या कारुण्यभावेन वा यथायोग्यं विचिकित्सापरिहरणं द्रव्यनिर्विचिकित्सागुणो भण्यते । यत्पुनर्जिनसमये सर्व समीचीनं परं किंतु वस्त्रप्रावरणं जलस्नानादिकं च न कुर्वन्ति तदेव दूषणमित्यादिकुत्सितभावस्य विशिष्टविवेकबलेन परिहरणं सा भावनिर्विचिकित्सा भण्यते । इति निश्चयेन पुनस्तस्यैव म्यवहारनिर्विचिकित्सागुणस्य बलेन समस्तद्वेषादिविकल्पत्यागेन निर्मलात्मानुभूतिलक्षणे निजशुद्धात्मनि व्यवस्थानं निर्विचिकित्सागुण इति ॥४१७॥ अथामूढदृष्टिं गुणं दर्शयति
भय-लज्जा-लाहादो हिंसारंभो ण मण्णदे धम्मो।
जो जिण-वयणे लीणो अमूढ-दिट्ठी हवे सो दु॥ ४१८ ॥ [छाया-भयलजालाभात् हिंसारम्भः न मन्यते धर्मः । यः जिनवचने लीनः अमूढदृष्टिः भवेत् स तु ॥] ह इति निश्चयेन, स जगत्प्रसिद्धः अमूढसम्यग्दृष्टिः अमौव्यगुणपरिणतो भवेत् । स कः । यः हिंसारम्भः यज्ञयागादौ पुण्यनिमित्तं हिंसायाः जीववधस्य आरम्भः प्रारम्भः विधानं धर्मों वृषो न मन्यते, हिंसाधर्म न श्रद्दधाति तचिप्रतीतिविश्वास न विदधाति । कुतः । भयलजालाभात्, भयात् राजामात्याधिकारिजनयक्षयक्षिणीभूतपिशाचादिप्रहपीडाडाकिनीशाकिन्यादिभयात् इहपरलोकादिसप्तभयाद्वा, लज्जातः पितृमातृभ्रातृबान्धवमित्रादित्रपातः, लाभात् यज्ञादी हीयमानसुवर्णादिदानप्राप्तेः हिंसाधर्म यो न मानयति स अमूढदृष्टिः सम्यग्दृष्टिः स्यात् । तथाहि वीतरागसर्वज्ञकथितागमबहिर्भूतैः कुदृष्टिमियत्प्रणीतं धातुवादखन्यवादमणिमन्त्रयत्रतत्रादिवादक्षुद्रविद्याव्यन्तरविकुर्वणादिकर्म अज्ञानिजनचित्तचमत्कारोत्पादक दृष्ट्वा श्रुत्वा च मूढभावेन योऽसौ धर्मबुद्ध्या तत्र रुचिं भक्तिं प्रतीतिं न करोति एवं व्यवहारेणामूढदृष्टिरुच्यते । निश्चयेन पुनः तस्यैवव्यवहारामूढदृष्टिगुणस्य प्रसादेन अन्तस्तत्त्वबहिस्तत्त्वनिश्चये जाते सति समस्तमिथ्यात्वरागादिषु शुभाशुभसंकल्प विकल्पेषु आत्मबुद्धिमुपादेयबुद्धिं हितबुद्धिं ममत्वभावं त्यक्त्वा त्रिगुप्तिरूपेण विशुद्धज्ञानदर्शनस्वभावे निजात्मनि निश्चलावस्थानं तदेवामूढदृष्टित्वमिति । संकल्पविकल्पलक्षणं कध्यते । पुत्रकलत्रमित्रधनधान्यादौ बहिर्द्रव्ये ममेदमिति संकल्पनं संकल्पः, अभ्यन्तरे सुख्यहं दुःख्यहम् इति हर्षविषादकरण विकल्प इति । अथवा वस्तुवृत्त्या संकल्पः इति कोऽर्थः, विकल्प इति तस्यैव पर्यायः॥४१८॥ अथोपगृहनगुणं गृणाति
व्यावहारिक निर्विचिकित्सा गुणके द्वारा द्वेष आदि समस्त विकल्पोंको त्यागकर निर्मल खानुभूतिरूप शुद्धात्मामें अपनेको स्थिर करना निश्चय निर्विचिकित्सा गुण है ॥ ४१७ ॥ आगे अमूढ़ दृष्टि गुणको कहते हैं । अर्थ-भय, लज्जा अथवा लालचके वशीभूत होकर जो हिंसा मूलक आरम्भको धर्म नहीं मानता, उस जिनवचनमें लीन पुरुषके अमूढ़ दृष्टि अंग होता है ॥ भावार्थ-जो सम्यग्दृष्टि पुरुष मिथ्यादृष्टियोंके द्वारा रचित और अज्ञानी मनुष्योंके चित्तमें चमत्कारको उत्पन्न करनेवाले मणि मंत्र तंत्र आदिको देखकर या सुनकर उनमें धर्मबुद्धिसे रुचि नहीं रखता वह ब्यवहारसे अमूढ़ दृष्टि अंगका पालक कहा जाता है । और उसी व्यवहार अमूढ़ दृष्टि अंगके प्रसादसे अन्तस्तत्त्व और बाह्य तत्त्वोंका निश्चय होनेपर समस्त मिथ्यात्व राग वगैरहमें और शुभ तथा अशुभ संकल्प विकल्पोंमें ममत्वको त्यागकर विशुद्ध ज्ञान और विशुद्ध दर्शन स्वभाववाले अपने आत्मामें स्थिर होना निश्चय अमूढ़ दृष्टि अंग है
१ ब भयलज्जगारवेहि य (१)।२ म स ग (ल?) हु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org