________________
-४८४]
१२. धर्मानुप्रेक्षा
३८१
मध्ये अन्यतमगुणस्थाने अनन्तानुबन्धिचतुष्कस्य मिथ्यात्वप्रकृतित्रयस्य च करणविधानेन धर्मध्यानबलेन च उपशमं कृत्वा उपशमसम्यग्दृष्टिर्भवति, सप्तानामेतासां प्रकृतीनां क्षयं कृत्वा क्षायिकसम्यग्दृष्टिर्भवति वा । ततः अप्रमत्तगुणस्थानवर्ती उपशमश्रेण्यारोहणं प्रत्यभिमुखो भवति तदा करणत्रयमध्येऽधःप्रवृत्तकरणं करोति । स एव सातिशयः अप्रमत्त उच्यते । स अप्रमत्तमुनिः अपूर्वकरणगुणस्थाने उपशमश्रेणिमारूढः पृथक्त्ववितर्कवीचारशुक्रध्यानबलेन प्रतिसमयानन्तगुणविशुध्या वर्तमानः प्रतिसमयसंख्यातगुणश्रेण्या प्रदेशनिर्जरा करोति । तत्र अन्तर्मुहूर्तकाल स्थित्वा ततः अनिवृत्तगुणस्थानोपशमश्रेण्यारूढ उपशमको मुनिः पृथक्त्ववितकेवीचारशुक्लध्यानबलेन, अप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधमानमायालोभहास्यादिनवनोकषायाः इत्येकविंशतिचारित्रमोहनीयप्रकृतीः उपशमयन् अन्तर्मुहूर्तकालस्थितिं कुर्वन् , ततः सूक्ष्मसापरायगुणस्थानोपशमश्रेण्यारूढः सूक्ष्मकृष्टिगतलोभानुरागोदयमनुभवन् सूक्ष्मकिट्टिकास्वरूपं लोभ वेदयन् प्रथमशुक्लध्यानबलेन सूक्ष्मसापरायोपशमकः खचरमसमये लोभसंज्वलनं सूक्ष्मकिट्टिकाखरूपं निःशेषमुपशमयति । ततः उपशान्तकषायगुणस्थानोपशमश्रेण्यारूढः • पृथक्त्ववितकेवीचारशुक्रध्यानपरिणतः सन् एकविंशतिचारित्रमोहनीयप्रकृती निरवशेष उपशमय्य यथाख्यातचारित्रधारी स्यात्।
शेषकर्मणामुपशमाभावात् मोहनीयस्योपशमः कथितः। अथ क्षपणविधिं वक्ष्ये । अनन्तानुबन्धिक्रोधमानमायालोभमिथ्यात्वसम्यग्मिध्यात्वसम्यक्त्वाख्याः सप्त प्रकृतीः एताः।असंयतसम्यग्दृष्टिः संयतासंयतः प्रमत्तसंयतः अप्रमत्तसंयतो वा चतुर्पु मध्ये एक एव वज्रर्षभनाराचसंहननयुक्तः त्रीन् करणान् कृत्वा अनिवृत्तिकरणचरमसमये अनुक्रमेण चतुर्णा कषायाणां क्षपयति । कुतः। धर्मध्यानबलात् । पश्चात्पुनरपि त्रीन् करणान् कृत्वाधःप्रवृत्तिकरणापूर्वकरणौ द्वौ अतिक्रम्यानिवृत्तिकरणकालसंख्येयभागान् गत्वा मिथ्यात्वं धर्मध्यानबलेन क्षपयति । ततो अन्तर्मुहत गत्वा सम्यग्मिथ्यात्वं क्षपयति । तदलेन ततो अन्तमुहूत गत्वा सम्यक्त्वं क्षपयति । क्षायिकसम्यग्दृष्टिः साधुः सातिशयाप्रमत्तसंयतो भूत्वा उत्कृष्टधर्मध्यानबलेन परिणतः सन् अपूर्वकरणगुणस्थानक्षपकश्रेण्यारूढः स्यात् । स अपूर्वकरणक्षपकः पृथक्त्ववितर्कवीचारशुक्रध्यानबलेन समय समय प्रति अनन्तगुणविशुद्ध्या वर्धमानः सन् प्रतिसमयं असंख्येयगुणखरूपेण प्रदेशनिर्जरा करोति । ततः अनिवृत्तिकरणगुणस्थानक्षपकोण्यारूढः क्षपकः अनिवृत्तिकरणस्य अन्तर्मुहूर्तस्य नव भागाः क्रियन्ते । तत्र अनिवृत्तिकरणस्य प्रथमभागे निद्रानिद्रा १ प्रचलाप्रचला १स्त्यानगृद्धी १ नरकगति १ तिर्यग्गति १ एकेन्द्रियजाति १द्वीन्द्रियजाति १ त्रीन्द्रियजाति १ चतुरिन्द्रियजाति
उपशम करके यथाख्यात चारित्रका धारी होता है। शेष कर्मोंका उपशम नहीं होता इस लिये केवल मोहनीय कर्मके ही उपशमका कथन किया है । आगे कर्मोके क्षपणकी विधिको कहते हैं-असंयत सम्यग्दृष्टि अथवा संयतासंयत अथवा प्रमत्तसंयत अथवा अप्रमत्तसंयत गुणस्थानवर्ती जीव अनन्तानुबन्धी क्रोध मान माया और लोभका क्षपण करके पुनः तीन करण करता है । उन तीन करणोंमेंसे अधःकरण और अपूर्वकरणको बिताकर अनिवृत्तिकरणके कालका संख्यात भाग बीतने पर धर्मध्यानके बलसे मिथ्यात्वका क्षय करता है । फिर अन्तर्मुहूर्तके बाद सम्यक् मिथ्यात्वका क्षय करता है फिर अन्तर्मुहूर्तके बाद सम्यक्त्व प्रकृतिका क्षय करता है । इस तरह वह क्षायिक सम्यग्दृष्टि होकर सातिशय अप्रमत्त संयत होता हुआ क्षपक श्रेणिपर चढ़ता है । और अपूर्वकरण गुणस्थानमें पहुँचकर पृथक्त्व वितर्क वीचार नामक शुक्लध्यानके बलसे प्रतिसमय अनन्तगुणी विशुद्धिको करता हुआ प्रतिसमय गुणश्रेणि निर्जराको करता है । उसके बाद अनिवृत्तिकरणगुणस्थानमें जाता है । अनिवृत्तिकरणका काल अन्तर्मुहूर्त है उसके नौ भाग किये जाते हैं । प्रथम भागमें शुक्लध्यानके बलसे निद्रानिद्रा, प्रचलाप्रचला, स्त्यानगृद्धि, नरकगति, तिर्यश्चगति, एकेन्द्रिय जाति, दोइन्द्रियजाति, त्रीन्द्रियजाति, चतुरिन्द्रियजाति, नरकगल्यानुपूर्वी, तिर्यग्गत्यानुपूर्वी, आतप, उद्द्योत, स्थावर, सूक्ष्म, साधारण, इन सोलह कर्मप्रकृतियोंका क्षय करता है । दूसरे भागमें अप्रत्याख्यानावरण क्रोध, मान, माया, लोभ और प्रख्याख्यानावरण क्रोध, मान, माया, लोभ, इन आठ प्रकृतियोंका क्षय करता है। तीसरे भागमें नपुंसक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org