Book Title: Kartikeyanupreksha
Author(s): Swami Kumar, A N Upadhye, Kailashchandra Shastri
Publisher: Paramshrut Prabhavak Mandal

Previous | Next

Page 378
________________ -३५७] १२. धर्मानुप्रेक्षा २५९ [छाया-बद्धा पर्यकम् अथवा ऊर्चेन अर्ध्वतः स्थित्वा । कालप्रमाणं कृत्वा इन्द्रियव्यापारवर्जितः भूत्वा ॥ जिनवचनैकाप्रमनाः संवृतकायः च अञ्जलिं कृत्वा । स्वखरूपे संलीनः वन्दनार्थ विचिन्तयन् ॥ कृत्वा देशप्रमाणं सर्वसावद्यवर्जितः भूत्वा । यः कुर्वते सामायिकं स मुनिसदृशः भवेत् तावत् ॥] यः सामायिकं संपन्नः प्रतिपन्नः सावउ श्रावकः श्राद्धः संयमोपपन्नमुनिसदृशो भवति । यः श्रावकः श्राद्धः सामायिकं समताम् 'समता सर्वभूतेषु संयमे शुभभावना। आर्तरौद्रपरित्यागस्त द्धि सामायिकं व्रतम् ॥' वा अहंदादिनवप्रकारदेववन्दनाम् इत्यादिलक्षणोपेतं सामायिकं करोति विदधाति । किं कृत्वा पूर्वम् । सर्वसावधवर्जितो भूत्वा सर्वपापव्यापार परित्यज्य सर्वपापोपयोगं मुक्त्वा । पुनः किं कृत्वा । देशप्रमाणं कृत्वा निर्व्याक्षेपमेकान्तभवनं वनं चैत्यालयादिकं च देशं मर्यादीकृत्य, चैत्यालयगिरिगुहाशून्यगृहश्मशानप्रमुखस्थाने एतावति क्षेत्रे स्थाने अहं स्थास्यामीति प्रमाणं कृत्वा विधायेत्यर्थः । पुनः किं कृत्वा । पर्यवं पर्यङ्कासनं वामपादमधः कृत्वा दक्षिणपादमुपरि कृत्वा उपवेशनं पद्मासनं बंधित्ता विबन्ध्य, अथवा ऊर्चेन ऊीभूतेन उद्भू स्थित्वा उद्भीभूय, द्वात्रिंशद्दोषवर्जितः सन् , कायोत्सर्गेण स्थित्वा मकरमुखाद्यासनं कृत्वा वा । पुनः किं कृत्वा । कालप्रमाणं कृत्वा कालमवधिं कृत्वा, एतावत्कालं पर्यङ्कासनेन कायोत्सर्गेण च तिष्ठामि, तथा एतावत्कालं सर्व सावद्ययोगं त्यजामि, इति एकघटिकामुहूर्तप्रहररात्रिदिवसादिकालपर्यन्तं कालमर्यादां कृत्वा । पुनः किं कृत्वा । इन्द्रियव्यापारवर्जितो भूत्वा, इन्द्रियाणां स्पर्शनरसनघ्राणचक्षुःश्रोत्राणां व्यापाराः खखस्पर्श ८ रस ५ गन्ध २ वर्ण ५ शब्द ७ विषयेषु प्रवृत्तयः, तैर्वर्जितः भूत्वा, अथवा व्यापाराः क्रयविक्रयलक्षणाः तैर्वर्जितः रहितो भूत्वा । केशबन्धं मुष्टिबन्धं वस्त्रबन्धं च कृत्वा इत्यासनं तृतीयम् ३ । कीहक् सन् श्रावकः सामायिक करोति। जिनवचनैकाग्रमनाः, सर्वज्ञवचने एकाग्रं चिन्तानिरोध. तत्र मनो यस्य स जिनवचनैकाग्रमनाः, सर्वज्ञवचनैकत्वगतचित्तः जीवादितत्त्वस्वरूपे एकलोलीचित्तः । च पुनः, संपुटकायः संकुचितशरीरः निश्चलीकृताङ्गोपाङ्गः । पुनः किं कृत्वा । अञ्जलिं कृत्वा हस्तौ द्वौ मुकुलीकृत्य मुक्ताशुक्तिकमुद्रावन्दनमुद्रां कृत्वा । पुनः कथंभूतः सन् । स्वस्वरूपे शुद्धबुद्धकचिद्रूपे चिदानन्दे स्वपरमात्मनि संलीनः लयं प्राप्तः । पुनः कीदृक् सन् । वन्दनार्थ वन्दनायाः अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुजिनवचनजिनप्रतिमाजिनालयलक्षणायाः अर्थः रहस्य प्रति दण्डकं द्वे नती द्वादशावर्तान् चतुःशिरांसि त्रिशुद्धिं च चिन्तयन् ध्यायन्, एवंभूतः श्रावकः शीतोष्णादिपरीषहविजयी उपसर्गसहिष्णु: मौनी हिंसादिभ्यो विषयकषायेभ्यश्च विनिवृत्त्य सामायिके वर्तमानो महाव्रती भवति । हिंसादिषु सर्वेषु अनासक्तचित्तः अभ्यन्तरप्रत्याख्यानसंयमघातिकर्मोदयजनितमन्दाविरतिपरिणामे सत्यपि महाव्रत इत्युपर्यते । एवं च कृत्वा अभव्यस्यापि निर्ग्रन्थलिङ्गधारिणः एकादशागधारिणो महाव्रतपरिपालनादसंयमभावस्यापि उपरिमप्रैवेयकविमानवासिता उपपना भवति। एवमभव्योऽपि निम्रन्थरूपधारी सामायिकवशादहमिन्द्रस्थाने श्रीमान् भवति चेत् किं पुनः सम्यग्दर्शनपूतात्मा सामायिकमापनः । सामायिकव्रतस्य पञ्चातिचारा भवन्ति, ते के इति चेदुच्यते । 'योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि ।' योगस्य कायवाड्मनसां कर्मणः दुष्टानि प्रणिधानानि दुष्टप्रवृत्तयः, योगस्य अन्यथा वा प्रणिधानानि प्रवृत्तयः, सामायिकावसरे क्रोधमानमायालोभसहिताः कायवाल्मनसा प्रवृत्तयः, क्रोधादिपरिणामवशादृष्टं प्रणिधानं भवति । शरीरावयवानां हस्तपादादीनाम् अस्थिरत्वं चालनं कायस्यान्यथाप्रवृत्तिः कायदुष्टप्रणिधानम् १ । संस्काररहितार्थागमकवर्णपदप्रयोगो वाचान्यथाप्रवृत्तिः वर्णसंस्कारे भावार्थे च अगमकत्वं चपलादिवचनं च वारदुःप्रणिधानम् २। मनसोऽनर्पितत्वं मनसः अनादर और स्मृत्यनुपस्थान । सामायिकके समय योग अर्थात् मन वचन और कायकी दुष्ट प्रवृत्ति करना, यानी परिणामोंमें कषायके आजानेसे मनको दूषित करना, सामायिकमें नहीं लगाना मनोदुष्प्रणिधान है । हाथ पैर वगैरहको स्थिर नहीं रखना कायदुष्प्रणिधान है। मंत्रको जल्दी जल्दी बोलना, जिससे मंत्रका उच्चारण अस्पष्ट और अर्थशून्य प्रतीत हो वचनदुष्प्रणिधान है । इस तरह सामायिकके ये तीन अतिचार हैं । सामायिक करते हुए भी सामायिकमें उत्साहित न होना अथवा अनादर का भाव रखना अनादर नामका चौथा अतिचार है । विस्मरण होना अर्थात् यह भूल जाना कि मैने अमुकतक पढ़ा या नहीं ? यह स्मृत्यनुस्थापन नामका पाँचवा अतिचार है । रनकरंड श्रावकाचारमें भी कहा है १'एकादशाङ्गध्यायिनों' इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594