________________
-३५७] १२. धर्मानुप्रेक्षा
२५९ [छाया-बद्धा पर्यकम् अथवा ऊर्चेन अर्ध्वतः स्थित्वा । कालप्रमाणं कृत्वा इन्द्रियव्यापारवर्जितः भूत्वा ॥ जिनवचनैकाप्रमनाः संवृतकायः च अञ्जलिं कृत्वा । स्वखरूपे संलीनः वन्दनार्थ विचिन्तयन् ॥ कृत्वा देशप्रमाणं सर्वसावद्यवर्जितः भूत्वा । यः कुर्वते सामायिकं स मुनिसदृशः भवेत् तावत् ॥] यः सामायिकं संपन्नः प्रतिपन्नः सावउ श्रावकः श्राद्धः संयमोपपन्नमुनिसदृशो भवति । यः श्रावकः श्राद्धः सामायिकं समताम् 'समता सर्वभूतेषु संयमे शुभभावना। आर्तरौद्रपरित्यागस्त द्धि सामायिकं व्रतम् ॥' वा अहंदादिनवप्रकारदेववन्दनाम् इत्यादिलक्षणोपेतं सामायिकं करोति विदधाति । किं कृत्वा पूर्वम् । सर्वसावधवर्जितो भूत्वा सर्वपापव्यापार परित्यज्य सर्वपापोपयोगं मुक्त्वा । पुनः किं कृत्वा । देशप्रमाणं कृत्वा निर्व्याक्षेपमेकान्तभवनं वनं चैत्यालयादिकं च देशं मर्यादीकृत्य, चैत्यालयगिरिगुहाशून्यगृहश्मशानप्रमुखस्थाने एतावति क्षेत्रे स्थाने अहं स्थास्यामीति प्रमाणं कृत्वा विधायेत्यर्थः । पुनः किं कृत्वा । पर्यवं पर्यङ्कासनं वामपादमधः कृत्वा दक्षिणपादमुपरि कृत्वा उपवेशनं पद्मासनं बंधित्ता विबन्ध्य, अथवा ऊर्चेन ऊीभूतेन उद्भू स्थित्वा उद्भीभूय, द्वात्रिंशद्दोषवर्जितः सन् , कायोत्सर्गेण स्थित्वा मकरमुखाद्यासनं कृत्वा वा । पुनः किं कृत्वा । कालप्रमाणं कृत्वा कालमवधिं कृत्वा, एतावत्कालं पर्यङ्कासनेन कायोत्सर्गेण च तिष्ठामि, तथा एतावत्कालं सर्व सावद्ययोगं त्यजामि, इति एकघटिकामुहूर्तप्रहररात्रिदिवसादिकालपर्यन्तं कालमर्यादां कृत्वा । पुनः किं कृत्वा । इन्द्रियव्यापारवर्जितो भूत्वा, इन्द्रियाणां स्पर्शनरसनघ्राणचक्षुःश्रोत्राणां व्यापाराः खखस्पर्श ८ रस ५ गन्ध २ वर्ण ५ शब्द ७ विषयेषु प्रवृत्तयः, तैर्वर्जितः भूत्वा, अथवा व्यापाराः क्रयविक्रयलक्षणाः तैर्वर्जितः रहितो भूत्वा । केशबन्धं मुष्टिबन्धं वस्त्रबन्धं च कृत्वा इत्यासनं तृतीयम् ३ । कीहक् सन् श्रावकः सामायिक करोति। जिनवचनैकाग्रमनाः, सर्वज्ञवचने एकाग्रं चिन्तानिरोध. तत्र मनो यस्य स जिनवचनैकाग्रमनाः, सर्वज्ञवचनैकत्वगतचित्तः जीवादितत्त्वस्वरूपे एकलोलीचित्तः । च पुनः, संपुटकायः संकुचितशरीरः निश्चलीकृताङ्गोपाङ्गः । पुनः किं कृत्वा । अञ्जलिं कृत्वा हस्तौ द्वौ मुकुलीकृत्य मुक्ताशुक्तिकमुद्रावन्दनमुद्रां कृत्वा । पुनः कथंभूतः सन् । स्वस्वरूपे शुद्धबुद्धकचिद्रूपे चिदानन्दे स्वपरमात्मनि संलीनः लयं प्राप्तः । पुनः कीदृक् सन् । वन्दनार्थ वन्दनायाः अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुजिनवचनजिनप्रतिमाजिनालयलक्षणायाः अर्थः रहस्य प्रति दण्डकं द्वे नती द्वादशावर्तान् चतुःशिरांसि त्रिशुद्धिं च चिन्तयन् ध्यायन्, एवंभूतः श्रावकः शीतोष्णादिपरीषहविजयी उपसर्गसहिष्णु: मौनी हिंसादिभ्यो विषयकषायेभ्यश्च विनिवृत्त्य सामायिके वर्तमानो महाव्रती भवति । हिंसादिषु सर्वेषु अनासक्तचित्तः अभ्यन्तरप्रत्याख्यानसंयमघातिकर्मोदयजनितमन्दाविरतिपरिणामे सत्यपि महाव्रत इत्युपर्यते । एवं च कृत्वा अभव्यस्यापि निर्ग्रन्थलिङ्गधारिणः एकादशागधारिणो महाव्रतपरिपालनादसंयमभावस्यापि उपरिमप्रैवेयकविमानवासिता उपपना भवति। एवमभव्योऽपि निम्रन्थरूपधारी सामायिकवशादहमिन्द्रस्थाने श्रीमान् भवति चेत् किं पुनः सम्यग्दर्शनपूतात्मा सामायिकमापनः । सामायिकव्रतस्य पञ्चातिचारा भवन्ति, ते के इति चेदुच्यते । 'योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि ।' योगस्य कायवाड्मनसां कर्मणः दुष्टानि प्रणिधानानि दुष्टप्रवृत्तयः, योगस्य अन्यथा वा प्रणिधानानि प्रवृत्तयः, सामायिकावसरे क्रोधमानमायालोभसहिताः कायवाल्मनसा प्रवृत्तयः, क्रोधादिपरिणामवशादृष्टं प्रणिधानं भवति । शरीरावयवानां हस्तपादादीनाम् अस्थिरत्वं चालनं कायस्यान्यथाप्रवृत्तिः कायदुष्टप्रणिधानम् १ । संस्काररहितार्थागमकवर्णपदप्रयोगो वाचान्यथाप्रवृत्तिः वर्णसंस्कारे भावार्थे च अगमकत्वं चपलादिवचनं च वारदुःप्रणिधानम् २। मनसोऽनर्पितत्वं मनसः
अनादर और स्मृत्यनुपस्थान । सामायिकके समय योग अर्थात् मन वचन और कायकी दुष्ट प्रवृत्ति करना, यानी परिणामोंमें कषायके आजानेसे मनको दूषित करना, सामायिकमें नहीं लगाना मनोदुष्प्रणिधान है । हाथ पैर वगैरहको स्थिर नहीं रखना कायदुष्प्रणिधान है। मंत्रको जल्दी जल्दी बोलना, जिससे मंत्रका उच्चारण अस्पष्ट और अर्थशून्य प्रतीत हो वचनदुष्प्रणिधान है । इस तरह सामायिकके ये तीन अतिचार हैं । सामायिक करते हुए भी सामायिकमें उत्साहित न होना अथवा अनादर का भाव रखना अनादर नामका चौथा अतिचार है । विस्मरण होना अर्थात् यह भूल जाना कि मैने अमुकतक पढ़ा या नहीं ? यह स्मृत्यनुस्थापन नामका पाँचवा अतिचार है । रनकरंड श्रावकाचारमें भी कहा है
१'एकादशाङ्गध्यायिनों' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org