Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ तए णं भावदेवे अणगारे संयमभट्ठा / नायला मम भारिया णवजोव्वणा अइवगोरंगी सरूवा पंचविहकामभोगे विलस्सामि / एवं अब्भत्थिए चारित्तं चयइ। जेणेव सुग्गामनयरे परिसरे रिसहजिणालए तेणेव उवागच्छइ / जिणहरदुवारे ठिच्चा तेणं समएणं नायला तत्थ उवागए। किसा दुब्बला अवियाणियमाणे भावदेवे एवं वयासी - भो भद्दे ! तुमं नायला उवलक्खइ / तए णं नायला पई उवलक्खिया एवं वयासी - तुमं किं नामा? केणटेण इहमागया? नायलाएणं किं कज्जं अत्थि? तए णं भावदेवे एवं वयासी - नायला मम भारिया मम मणे अइव पिम्मवियोगं सल्लइ / पुव्विं मया लज्जाएणं संजमं गहियं / जाव पिम्मवसिए संजमं मुक्को / जया णं नायला मिलस्सइ तया णं गिहवासं कामभोग विलस्सामि / तेणद्वेणं इहमागयाह तए णं सा नायला एवं वयासी - एस मिच्छावयणं मा वयह / संजमं चिंतामणिं ततः पश्चाद्भावदेवोऽनगारो भ्रातृकालधर्म विज्ञाय संयमेऽस्थिरचित्तोऽभवत् / पूर्वमपि चरणं लज्जावशेनाङ्गीकृतमभूत् / अथ साधुत्वं तित्यक्षुरेवं चिन्तितवान् / हा ! मया मूर्खेण नागिला मम भार्या नवयौवना, अतीवगौराङ्गी, सुरूपा, सलावण्या वृथा त्यक्ता / अतः परं तया सह पञ्चविधमानुष्यकान् कामभोगान् विलसामि / एवं सङ्कल्पितवान्, चिन्तितवान्, प्रार्थितवानासीत् / ततः स परिगृहीतचारित्रं परित्यज्य यत्र सुग्रामनगरं तत्परिसरे यच्चोपवनं तत्रैव ऋषभजिनप्रासादमस्ति तत्रैवोपागच्छति। उपागत्य ऋषभजिनभवनद्वार ऊर्वीभूय स्थितः / तस्मिन्समये नागिला तत्पत्नी ऋषभजिनं नमस्कर्तुं तत्रैवोपागता / अतीवकृशा दुर्बला तदानीं तामजानता तेन भावदेवेन पृष्टा - भद्रे ! त्वं नागिलामुपलक्ष्यसि वा न ? ततो नागिलया पतिरुपलक्षितः, एवं वदति तं प्रति - भो मुने! त्वन्नाम किम् ? केनार्थेनागतोऽसि? अत्र नागिलया सह तव किं कार्यमस्ति ? ततो भावदेव एवमवादीत् - हे भद्रे ! नागिला मद्भार्या तस्यातीव मम प्रेमवियोगशल्यं परिस्फुरति / पूर्वं मया हीया संयमं गृहीतमभूत् / यावदधुना प्रेमवशतः संयमं मुमुक्षुरस्मि / मया प्रतिज्ञा कृताऽस्ति / यदा च मां नागिलाभार्या मिलिष्यति तदाहं तया सार्धं कामभोगविलासं भोक्ष्यामीति / तेनार्थेनेहागतोऽहम्। जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120