Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ ते झंपाविओ। ते पुरिसे कवि भूयो। महापच्छाताविओ रुक्खसाहाए ठिच्चा / तए णं तस्स इत्थिया वानरं पिम्मं मुक्का पुणरवि दहमज्झे नो झंपावेइ / तत्थ रुक्खछाए पत्तसरीरं आच्छायइ ठिया / स वानरं असायावेयणी वेयइ / तए णं तस्स वण आसण्णनयरे राया आसकीलणट्ठाए तत्थ वणे उवागच्छइ / उवागच्छित्ता तए णं विजयसत्तु राया एसा सुंदरी दिट्ठा एवं वयासी - तुमं को वि, कत्थमागया, कत्थ चलसि? तए णं ते इत्थिए एस कविचरिअं निवेइअं। राया दिट्ठीरागेण मोहं गया। रामा राया-दिट्ठि-वयणे मोहं वसिया। अण्णोण्णं ससहं राया सा इत्थि विवाहिया / सव्वदेवी सिरे पट्टदेवी ठाविआ। विविह वत्थ, विविह आहरणा, विविह कामभोगे सरिसजोए अइव पिम्मभरं विहरइ / तए णं से तत्रैवोद्याने समुपागच्छति / वनक्रीडामश्ववाहनिकां कृत्वा यावत्तत्रैव विचरति तावता जितशत्रुराज्ञा सा सुन्दरी रमणी दृष्टा / तां वीक्ष्यैवमवदत् - भद्रे ! त्वं काऽसि? कुत आगता ? रतिर्वा रम्भा वा किन्नरी वा नरी वा? अग्रे क्व यास्यसि ? राज्ञेत्थं सादरं पृष्टा सती तदानीं तया सर्वं कपिचरित्रं यज्जातमभूत्तद्राक्षे निवेदितम् / राज्ञाऽपि दृष्टिरागेण मोहंगतः सन् तस्याः सन्मुखं मुहुर्मुहुः पश्यति / रामाऽपि राजन्मुखं दृष्ट्वा मोहवशं गता। परस्परं कामव्यथापीडितौ सरागं निरीक्षन्तावभूताम् / ततः सा पौरलोकसमक्षं राज्ञा विवाहिता / सर्वास्वन्तःपुरीष्वन्तरा पट्टराज्ञी स्थापिता / विविधवस्त्राभरणादीनि समर्पितानि / वासभुवनमुच्चैः समर्पितं वसनाय / अथ साऽनेकविधकामभोगोपलब्धौ सत्यां सदृक्षयौवनावस्थादिसंयोगेऽत्यन्तं राज्ञा सार्धं प्रेमभरं बिभर्ति विचरति / ततः पश्चात्स कपिः पश्चात्तापं करोति / ___ तस्मिन्समये कोऽपि नाट्यकारयितापुरुषस्तं कपि छलेन गृहीत्वा निबध्नाति / प्रतोदप्रहारयोगेन नाट्यं शिक्षयति / शिक्षयित्वा गृहे गृहे तं नर्तयति / कपिप्रसादेन स नरः सुखेनाजीविकां कुर्वन् विचरति / अन्यत्र यत्र राजा देव्या सार्द्धं गवाक्षोपरि स्थितोऽस्ति तत्रैव स नटपुरुषो वनौकेन सहागतः / ततो विविधप्रकारैर्नाट्यं कारयति। कपिना सर्वेऽपि सज्जना नाट्येन रञ्जिताः / तदानीं तं वानरदानार्थं कराङ्गुल्या गृह्णाति। जंबु अज्झयणं : जम्बूचरितम् 42 .

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120