Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 78
________________ दसमो उद्देसो - खेत्तकोडुंबिकदिर्सेतो तए णं जंबू चउत्थी भारिया कणगसेणा एवं वयासी - सामी ! तुमं संजमं मा गिन्हह / अम्हारिसी इत्थिसरीरं चइत्ता संजमं गिन्हस्सओ। तया णं तुम सिद्धिसुहं न भविस्सइ / अइलोहं खेत्तकुडुंबिको इव भविस्सइ / सामी ! सुणेह - इहेव जंबूद्दीवे दीवे भारहे वासे सूरपुरे गामे को वि कोडुंबिको वसइ / स करसणं आजीवं विहरइ / पंखी उड्डाणट्ठाए माले आरोहइ / संखं पूरेइ / संखसद्दे को वि ततोऽनन्तरं जम्बूभार्या कनकसेनैवमवादीत् - स्वामिन् ! यूयं संयमं मा गृहणीध्वम्, यतोऽस्मत्सदृश्यो युवत्यस्तासां शरीरसङ्गमलब्धं सुखं विजह्य संयम चेयूयं प्रतिपत्स्यतः, तदा भवतां सिद्धिसुखमपि न भविष्यति, न सम्पत्स्यते / अतिलोल्यात् क्षेत्रकौटुम्बिकगतिर्भविष्यति / स्वामिन् ! श्रुणुत / अत्रैव भारते सुग्रीवपुर नाम्नि ग्रामे कश्चित्कौटुम्बिकः परिवसति / मल्लोभाविष्टः स कर्षणं करोति / कर्षणेनाजीविकावृत्ति व्यवहरति / शकुन्तोड्डापनार्थमहर्निशमालकमारुह्य निषीदति / मालकोपर्यध्यास्त इत्यर्थः / तत्रारुह्य शङ्ख पूरयति, ध्माति / तच्छब्देन विहङ्गमाः पशवश्च कर्षणान्नं न भक्षयन्ति / सोऽनया रीत्यैवं विचरति / सोऽन्यदा मालके स्थितस्तदा च रजन्यां कोऽपि पल्लीपतिसेवकः सूरपुरग्राममध्ये स्तेनार्थं प्रविष्टः, परपशून् गृहीत्वा ग्रामान्तरात्प्रणष्टः यत्र तत्क्षेत्रसमीपं तत्रैव क्षेत्रपथमध्य उपागतस्तदानीं पशुरवं हम्भाशब्दं श्रुत्वा माले स्थितः कौटुम्बिकोऽन्नरक्षणनिमित्तं शङ्खशब्दं पूरितवान् / ततश्चौरः प्रपलायितः, पशून् मुक्त्वा प्रणष्टः / तान् गोमहिष्यादिपशून् कौटुम्बिकः सङ्ग्राहयति / ततो गतोऽन्यस्थाने तान्विक्रीणाति विक्रीणन्ने पशून् कार्षिको धनाढ्यो जातः / समृद्धो यावद् द्वित्रिर्वारमेवं पशून् विक्रयित्वा बहुधनं सङ्ग्रहीतम् / ततः पल्लीपतिः समेताः पल्लीवासिनस्तु चतुरपुरुषाः सन्नद्धबद्धाः पल्लीपतिः समन्विता यथा पूर्वं तथा कम्बुशब्दं श्रुत्वा तत्रोपागच्छन्ति / पल्लीपतिः क्षेत्रं परिवेष्टयित्वा स्थितः, क्षेत्रमुपरोध्य कौटुम्बिकं बद्ध्वा, गृहीत्वा च बहुशो निर्भर्त्सयन्ति, जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120