Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 94
________________ अण्णया ते मंत्ति पई राया रुट्ठो। मंति भयभिया जेणेव निच्चमित्तं तेणेव उवागच्छइ / उवागच्छित्ता निच्चमित्ता एवं वयासी - ममगेहे मा ऽऽगच्छह / तुम्हं अम्हं नत्थि पिम्मं / निच्चमित्तेण नियगिहाओ नियासियो / तए णं मंत्ति जेणेव पव्वमित्ते तेणेव उवागच्छइ उवागच्छित्ता वयासि - मम रक्खह / तया णं पव्वमित्तो एवं वयासी - मित्ता ! मम गेहं पच्छण्ण नत्थि ठाणं तम्हा अण्णठाणे गच्छह / तए णं ते मंति जेणेव जुहारमित्तो तेणेव उवागच्छइ उवागिच्छत्ता वयासि - मम रक्खह / तया णं ते जुहारमित्ते एवं वयासी - मंति मा भीअह मम गेहं चिट्ठह / पिया ! किं बहुणा अनेन प्रत्युत्तरं रुक्षमीदृशं प्रदत्तम्, अतोऽस्य वेश्मनि न स्थेयम् / ततः प्रस्थितो मन्त्री यत्र पर्वमित्रगृहं तत्रैवोपागच्छति / उपागत्य तमेवं वक्ति - भो पर्वमित्र ! मां गृहे रक्षय / मदुपरि राजा कुपितोऽस्ति तद्धेतुना / ततः पर्वमित्रमेवं वदति / मित्र ! मगृहे प्रच्छनस्थानं नास्ति / तस्मादन्यत्र गच्छ। ततो मन्त्रिणा ज्ञातमनेनापीत्थमेवोक्तम्। एतेषु तिलेषु तैलं नास्ति / ततो यत्र जुहारमित्रगृहं तत्रैवोपागच्छति / तस्यापीत्थमेवं वदति - भो मित्र ! मम गृहे रक्षय / ततस्तेनाऽभ्युत्थानादिसत्कारसन्मानासनदानादिना मन्त्री सन्तोषितः / पश्चादित्थमुक्तम् - मित्रमन्त्रिन् ! मा बिभेषि / भयं न कुर्याः / मदृहे प्रच्छन्नस्थाने तिष्ठ / किं बहुना पितृसममिदं मित्रम् / ततः केनापि द्विषज्जनेनाप्युक्तं राज्ञोऽग्रे - स्वामिन् ! जुहारमित्रगृहेऽमात्य स्थितोऽस्ति / जुहारमित्रेण निजौकमध्ये रक्षितोऽस्ति / ततो जुहारमित्रो राजनिबद्धः पृष्टं च - त्वगृहे मन्त्र्यस्ति न वा। ततः सोऽवादीत् - स्वामिन्नस्ति / यतस्तेन विचारितं राज्ञोग्रे मृषावादमजल्पनीयमित्युक्तमस्ति नीतौ / उक्तं च - ___हितं मित्रप्रियं स्त्रिभिरलीकमधुरं द्विषा / सानुकूलं च सत्यं च वक्तव्यं स्वामिना सह // 1 // ततस्तेन राज्ञोक्तम् - स्वामिन् ! प्रभो ! यत्त्वं राजग्राह्यं दण्डादिकं मार्गयसि सचिवपार्श्वे तदहं दद्मि / किं बहुना, यद्राज्ञा मार्गितं दण्डादिकं प्रार्थितं तत्तेन स्वीयस्वदानेन राजा सन्तोषितः / अमात्यो मुञ्चितः / ततः स जुहारमित्रो गुणैः जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120