Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 106
________________ अणसणे विहरइ / उण्हविसमपरिसहं सहइ / जहा नवनीअंतहा सरीरं सहियमाणे दिवं गए। एगावयारी भविस्सइ / तहा जंबू संजमं दुस्सहं / (जंबू दिलुते वीसमो उद्देसो समत्तो) तया णं जंबू धम्मायरियपई एवं वयासी / कातराणां दुस्सहा साहस्सीणं सुलहा / तए णं सुहम्मायरिए णाणजोए निम्मलजीवं वियाणिआ जाव पव्वइआ। ते जंबू सोलससंवच्छरे गिहवासं सत्तरसमे संवच्छरे संजमं पव्वइया। संजमे तवसा अप्पाणं भावमाणे विहरइ / अणेग छट्ठट्ठमदसमदुवालसमासद्धमासखमण तवं कुज्जा। वीसवरिस छउमत्थकाले विहरइ / सुहज्झाणे केवलनाणे समुप्पण्णे / मन्दिरोपरिस्थितेन मातृवचनमुपलक्ष्य मन्दिरादधरुत्तरति, मातृनेदिष्टमुपागत्यैवं वदतिमातः ! मा रोद, अहंत्वदङ्गजोऽस्मि / ततो मातैवं वदति - भोऽरहनक पुत्र ! तव स्वरूपं संयमरूपं क्व। ततोऽरहन्नको वक्ति - मातः ! मया संयम चरणं पालयितुमशक्यते / संयममार्गमतिशयितदुष्करं यावज्जीवम् / अतश्चारित्रं पालयितुमसमर्थोऽहं मातः साहसिकं तपः कर्तुं न शक्तोऽस्मि / मातरहं चरणे कातरोऽस्मि / तदानीं मातृसाध्वी वदति - अरहन्नक सुत ! कुलसन्मुखं विलोकय। पुत्र स्वान्वयं पश्य / पुत्र चिन्तामणेरधिकगुणं संयमं मा त्यज / मातुरेतद्वाक्यं श्रुत्वा पुनः सम्बुद्धः संयममाराधयन्नुष्णकालेऽनशनेन विचरति अत्युष्णतृषापरिषहं तितिक्षति सहति / तेन परिषहेण यथा नवनीतं तथा तस्य शरीरं द्रवति क्षरति / तत्परिषहं सहमानः स्तोककालेनैव कालं कृत्वा देवलोके गतः / कालं क्षये तत एकावतारेण सिद्धिं गमिष्यति / तथा जम्बु ! संयममार्गमतीवदुस्सहम् / (इति जम्बूदृष्टान्ते विंशतितमोद्देशकः) _तदानन्तरं जम्बू सुधर्मस्वामिनं धर्माचार्यमेवं वदति - स्वामिन् ! भवद्भिरुक्तं तत्सत्यं परं कातराणां दुष्करं दुस्सहं साहसिकानां शूरवीराणां सुलभं सुकरम् / ततः सुधर्माचार्यो ज्ञानोपयोगेन निर्मलजीवं तन्मुक्तिगामिनं च विज्ञाय यावत्प्रव्राजयति / अन्येऽपि पञ्चशतसप्तविंशत्यधिका प्रभवादयः प्रव्राजिता / स च जम्बू षोडश जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120