Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 85
________________ एग तुरंगम होत्था / सुलक्खणा, अणेगगुणे कुसला, किसिकण्णा, वक्कमुहा, खंध अहिया। सकोहा एस तुरीअ- गुणा माणव अवगुणा / जेण गेहे तुरीय इत्थी पुत्त सुलक्खणे भवइ, तस्स गेहे सुहं भवइ / से तुरंगम रायाए जिणदत्तगिहे ठाविओ। विसेस सुमग्गसीखणट्ठाए / ते आसए समणोवासए सिक्खाविओ। विसेसलक्खणो भूओ। तेण समए कति जोअणंतरिए जियसत्तु रिपुराया परिवसइ / तेण रायाए आस वियाणीओ। से णयरे अघोसं घोसाविआ जे पुरिसा जियसत्तु गिहे सुलक्खणं आसं इह आणइ / तस्स गामं नयरं दावेमि। तया णं एग सुहडे पाणि गिन्हइ / सिग्धं शिक्षापनकुशलस्तत्र पञ्चगतयस्तुरङ्गाणां क्रमाद्धौरितवल्गितप्लुतउत्तेजितरेचितम्, तत्र धौरितकं धौर्यगमनम्, रथतुरङ्गमगमनम्, 1 नकुलकङ्कशिखिकमटवत्कवद्गतिवल्गितमुच्यते, 2 अग्रकायसमुल्लासाकुञ्चितास्यं नतत्रिकं प्लुतं 3 पक्षिमृगगत्यउ(?)हारकमुत्तेजितं 4 मध्यवेगेन या गतिस्तद्रेचितं गमनं 5 ततस्ता सर्वाऽपि गतयः शिक्षिता अश्वेन / तेन जिनदत्तश्रमणोपासकेन शिक्षापिता, विशेषतोऽश्व सुलक्षणैरुपेतो जातः। तस्मिन्नवसरे कति योजनान्तरेषु जितशत्रुराज्ञो रिपुराजा विपक्षनृपः परिवसति / तेन शत्रुराज्ञा तमश्वं सम्यक्शिक्षितं विज्ञाय तमानयनार्थं स्वकीय पुरान्तरे दस्यूद्धोषणा दापिता / पटहो वादितो यो पुरुषः सुभटो जितशत्रुराज्ञः प्रासादात्सुलक्षणमश्वमिहानयिष्यति तस्य द्रङ्गो वा ग्रामो वा खेटो वा कर्बटो वा मया दीयते / तदेकेन सुभटेन राज्ञोक्तवचः श्रुत्वा पणः कृतोऽहमवश्यमश्वमानयामीति कृतप्रतिज्ञ इत्यर्थः / ततः शीघ्रं वसन्तपुरं समायातो यत्र जिनदत्तश्रमणोपासकगृहम् / यत्र चाश्वस्थानं तत्र दृक्पातं कुरुते चौर्यवृत्त्या / अन्यदा लब्धावसरोऽसौ यत्राश्वस्थानं तत्पृष्ठिद्वारं वाजिशालाप्राक्तारमुद्घाटयति / ततो मध्यशालायां क्षात्रपातेन सन्धिदानेनाभ्यन्तरा प्रविशति / ततो यत्राश्वोऽस्ति बहुयत्नेन सुरक्षितस्तत्रैवोपागच्छत्युपागत्याश्वं विलोकयति / रश्मिबद्धमुत्कीलयति छोटयति / उत्कील्य चाश्वपृष्ठो पर्यारोहति / ततः स सुभटोऽश्वोपर्यारुह्य प्रतोदप्रहारेण प्रेरयति / तमश्वं प्रहारयति, जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120