Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 87
________________ तम्हा इह गिहे सुहं भुंजह / जंबू वयइ - अहं तुमं भोगं चइत्ता संजमं विहरिस्सामि / (जंबू दिलुते तेरसमो उद्देसो समत्तो) चउदसमो उद्देसो - विप्पपुत्तदिटुंतो तया णं जंबू छट्ठी भारिया कणगसिरी एवं वयासी - सामी! विप्पपुत्त इव मूढं मा भवह / वल्लह सुणेह / को वि गामे विप्पगामहट्टं वसइ / तस्स पुत्त मूढ अस्थि / तस्स पिया परलोअं गया। तया णं तस्स अम्मा पुत्तपइं एवं वयासी - पुत्ता! पंडियं भव / पुत्ता जे कज्जं गिन्हइ स कज्जं असिद्धं न मुंचइ / पुत्ता ! पंडिय एस साधितम् / ते कामभोगाः कथमुन्मार्गत्वेन प्ररूप्यन्ते / तस्मादिह गृहे ससुखं भोगान् भुक्ष्व / ततो जम्बू वदति - प्रिये ! अहं भवद्भोगं त्यक्त्वा संयममाश्रयिष्यामि निश्चयेन / (इति जम्बूदृष्टान्ते त्रयोदशमोद्देशकः) ततोऽनन्तरं जम्बुषष्टीभार्या कनकधीत्थमवादीत् - स्वामिन् ! विप्रात्मजवद् मूढो मा भव / वल्लभ ! श्रुणुत / कस्मिन् ग्रामे कोऽपि विप्रोऽतिदुःस्थो निवसति / तस्य सुतोऽतीव मूढोऽस्ति / तत्पितायुःक्षये परलोके गतः, मृतरित्यर्थः / तदानीं विप्राङ्गजमाता तं सुतमेवं वदति - पुत्रः जनकस्तव स्वर्गे गतः / अथ त्वं पण्डितो भव / सुलक्षणः सुविचक्षणः स्वकार्यसाधको भव। भो पुत्र ! यत्कार्यमङ्गीक्रियते, प्रतिपद्यते, ईषदपि कार्य प्रारभ्यते तन्नासिद्धं मुच्यते / प्रारब्धस्यान्तगमनमिति बुद्धिलक्षणम्। बहुविघ्नैरपि तत्कार्यं न परित्यज्यते / प्रथमतोऽशक्यं कार्यं न प्रारभ्यत इति प्रथमं बुद्धिलक्षणम्, चेत्प्रारब्धं तदा प्रान्तभावेन पारायणेन नीयत इति द्वितीयलक्षणम् / उक्तम् - * अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणं / प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् // इति नीतिरीतिः // निपुणवाक्यस्मरणादीदृशाचरणमेव नाचरणीयम् / इत्थं हितोक्त्या सुतं शिक्षयति माता / ततः सुतो वक्ति-अम्बे ! त्वद्वचनं मया तथैवेति प्रतिपन्नम् / ततः स मूर्यो विप्रसुतो ग्रामान्तरा विचरति।। जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120