Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 76
________________ विज्जुणमाली / कहं विज्जा हारिया / मम उवदिसह / जंबू वयइ - इहेव भारहे वासे कुसट्ट नामं गामं होत्था / तत्थ णं दुवे विप्पपुत्ता परिवसंति - तं जहा आजीविकारहिता विज्जुणमाली, मेघरथ नाम निद्धणा / न विज्जा न कित्ती / दुहा जीवीया / ते दुवे अन्नया कयाइं गामबाहिरं रुक्खच्छायाए को वि विज्जाहरे पासइ। वंदइ / तया णं ते विज्जाहरे एवं वयासी - भो विप्पा! चंडाली विज्जाहरी विज्जा अहं तुमं सिक्खावेइ / मम वयणं पालिस्सह। ते वयणं सुच्चा विज्जुणमाली मेघरथा एवं वयासी / हंता ! पहु! अहं विज्जापिवासिआ। तए णं ते विज्जाहरे एवं वयासी - तुमं दुवे एग मायंगपुत्ती पाणिगिन्ह / एगंत गामबाहिरं वसह / तओ सो विद्याधरोऽवादीत् ताभ्याम्-भो वर्णज्येष्ठसुतौ श्रुणुत / मत्पार्श्वे चाण्डालिनीविद्या विद्यते / सा भवतोः शिक्षयामि मद्वचनं चेत् पालयिष्यताम् / तद्वचनं श्रुत्वा विद्युन्मालीमेघरथावेवं वदतः - भो भदन्त ! भो प्रभु ! आवां विद्यापिपासितौ विद्यागवेषकावित्यर्थः / ततः सो विद्याधर एवमवादीत् - भो विप्रसुतौ ! युवामेकां मातङ्गिपुत्रीमुद्वहताम् / ततो ग्रामस्य बहिः प्रदेशे निवसताम् / ततो मातङ्ग्या भोगान् मा भुञ्जतां सदा ब्रह्मचारिणौ तिष्ठतः / एतन्मन्त्राक्षराण्यहं दद्मि तधुवामेकाग्रमनसौ ध्यायेताम् / इत्थं विधिया॑यन्तोर्युवयोश्चाण्डालीनी विद्या षण्मासानन्तरं साक्षाल्लक्षणप्रत्यक्षा भविष्यति / पश्चाधुवयोर्यथेप्सितं पूरयिष्यते। तद्वचनं श्रुत्वा तौ यथा विद्याधरेण भाषितं तद्वचनं प्रतिश्रुत्यैवं हृद्यवधार्य यथाविधिर्गुरूपदिष्टरीत्या यद्भाषितं तत्तथैवकर्त्तव्यमिति विनयलक्षणभावेनैकमनसौ मन्त्राक्षराणि हृद्यधिध्यायन्तौ विचरतः / ततो विद्युन्माली नामाऽग्रजो मातङ्गी सुरूपां विलोक्यमानो विषयमोहभावमुपपन्नः / कन्दर्पसर्पदष्टो लोकविरुद्धाचारमपि न गणयति / यतः - कंदप्पसप्पदट्ठो लोयं न जाणइ मूढो / हूइ बंभचेरभट्ठो रूवारूवं न पासइ // 1 // ततो महाकुरूपमातङ्ग्या सार्द्धं ब्रह्मचर्यभ्रष्टः प्रेमपङ्के निमग्नो हावभाव जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120