Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ हिरण्णगारे अप्पमहिलाचरियं निवेइयं पच्छा पट्टदेवीचरियं निवेइयं / तए णं हिरण्णगारो पडिविसज्जिओ। राया आसुरत्तो उवागच्छइ उवागच्छित्ता पट्टदेवी, पट्टहत्थी, कुंतार सद्दाविया / पट्टदेवी गयंदं ठाविआ कुंतार आसन्ने नयरमझमज्झेणं जेणेव पव्वयसिहरे तेणेव उवागच्छइ / उवागच्छित्ता गयंदं दुरुहाविया / राया कोडुंबियपुरुसा एवं वयासी - सेवया ! एस गयंदसहिया कुंतार-देवी सिहरं पुठि ढोलह / विलंबं मा कुरु / तया णं ते कोडुंबियपुरिसा सिहरसमीवं गया। रायावयणं उग्घोसइ / तया णं विलम्बं कुर्याः / ततस्ते कौटुम्बिकपुरुषास्तथैवेति प्रतिपद्य शिखरसमीपं समुपागता राज्ञो वचनमुद्घोषयन्तः / सर्वपुरीविलोक्यमानः स गजः स्वस्यैकमग्रपादमम्बरमुच्चैः स्थितं कृत्वा स्थितः / भावार्थस्त्वयम् उत्पाटितपादानोऽभवत् / ततस्त्रिभिश्चरणैः शरीरभारमुद्वहति / तदानीं मन्त्रिसामन्तादिसर्वे जना राजानं विज्ञपयन्ति - हे नरेन्द्र ! एषो हस्ति लक्षणोपेतो हस्तिलक्षणैरुत्तमोऽस्ति / सहस्रयोधा लक्षयोधाः संग्रामसमर्थः संग्रामेष्वपराजितोऽतो रक्षणीयो गजः / हस्तिपकराज्ञौ देशाबहिनिष्कासय स्वामिन् ! तेषां विज्ञप्ता / पश्चाद्राजागतं प्रत्यानयति, न मन्यते / राज्ञा गजं द्विपद्भ्यामाकाशस्थितं यदागत्य दृष्टं तदा मानितं / राजा सन्तुष्टो गजेन्द्रोपरि प्रसीद्य स्वस्थाने आलानस्तम्भे गजं स्थापयति / निषाददैव्यौं द्वावपि राष्ट्राबहिनिष्कासितौ। ततस्तौ द्वौ नृस्त्रीरूपावटव्यां परिभ्रमन्तौ संध्यासमये कस्यचिद्पुरःसन्निधौ देवगृहमध्य आगत्य विश्रामितौ पर्युषितौ रात्रिसमये / तस्मिन्समये नगरमध्ये कस्यचिदिभ्यस्य वेश्मनि क्षात्रदानेन धनं मुषित्वा कोऽपि चौरः प्रणष्टः / स चौरस्तस्मिन्नेव स्थाने देवालयान्तरागतः / ततः सहस्त्यारोहभार्या चौरमागतं सरूपं सलावण्यं दृष्ट्वा तत उत्तिष्ठते / निषादिपाश्र्वादुत्थाय तत्समीपमुपस्थिता / एवं चौरं प्रत्यवादीत् - मा बिभेषि त्वम्। चेद्यदि केऽपि राजसुभटास्त्वां प्रतिनिबध्नन्ति तदा त्वया वाच्यम् भो / अहं परदेशी सभार्यो देवालयमागत्य विश्रान्तोऽस्मि / ततः कश्चिच्चौरो धनं मुषित्वेहागतः / मां पूर्वसुप्तं हननार्थमुपागतस्तदानीमहं भीत इति वाच्यम् / तयैवं चौरः शिक्षितः / पुनरुक्तं तया तस्मिन्समये चेद्यदि सुभटागमनावसरे जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120