Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ दावेह / एवं भासमाणे सप्पभावदेवया संघट्टिय बहिरं आगया। सव्वजणाओ समारि भासइ / जयजयारव सद्द वित्थरइ / जज्जर हिरण्णगारं पुत्ताइसव्वजणा हिलंति निंदति गरहंति / सयं सयं गिहं सव्वजणा पडिगया। तया णं ते जज्जरसरीरं हिरण्णगारं महाअट्टदुहट्ट वेयइ / हा! इत्थिचरियं को वि न वियाणइ / को वि पंडिया तारा गणेइ / गहगण संखा करेइ। गहनेयं वियाणेइ। राहु-रवि-ससिचरियं वियाणइ / पुण इत्थिचरियं को वि देवा न याणंति / तओ मणुआ विसेसं न याणंति। एवं अट्टदुहट्टवसिए विसेस अनिद्दे भवइ। राज्ञोक्तं तथैवेत्यङ्गीचकार। अथ सो राज्ञः प्रासादगृहानुच्चैर्गवाक्षजाले दर्शनीयेऽभिरूपे यावत्प्रतिरूपे राज्ञादेशात्संस्थितः / तत्रैवाऽहर्निशं निवसतीत्यर्थः / चतुर्दिक्ष्वपि भाण्डागारमन्तःपुरं च विलोकयन् विचरति / ततः सोऽन्तःपुरसौधसमीपसौधगवाक्षमध्यवर्ती मध्यरात्रिसमय अन्त:पुरपृष्ठद्वारे पट्टगजेन्द्रं हस्तिपक सहितस्तमागतं पश्यति / ततस्तत्र पट्टहस्ती पट्टराज्ञी शुण्डाहस्तेन प्रासादपश्चाद्गवाक्षद्वारतः सङ्ग्रह्य स्वकुम्भस्थलपृष्ठप्रदेशे संस्थापयति, आरोहयति। ततो हस्तिपकः पट्टराज्ञी सार्धं सुरतसुखं सर्वदाऽनुभवति / तस्मिन् दिने सा राज्ञी कर्मयोगात्तद्वाराच्च क्षणघटीकालमात्रं विलम्बं कुर्वन्ती सद्यो नागता / तदा तेन हस्तिपकेन हस्तिस्कन्धोपरि पूर्वं यावद्गाढदुर्वचनैर्निर्भसिता पश्चात्ताडिता हस्तिशृङ्खलया देवीम् / तथापि सेत्थमवादीत् - स्वामिन् ! ममैकापराधं क्षमस्व / अद्यपश्चात्तत्कालमुपागमिष्यामि / पश्चात्तेन प्रेमवाक्योपशान्तेन देवीवचनामृताभिषिक्तेन निषादिना सोपभुक्ता पञ्चेन्द्रियविषयसुखैः / पश्चाद्धस्तिना कराग्रेण गृहीत्वा तद्द्वारात् तस्मिन्नेव सौधे विमुक्ता राज्ञी। पश्चाद्गजेन्द्रसहितो गजपालकः प्रतिगतः स्थाने। ___ एतच्चरित्रं राजकुलसमुद्भवं वीक्ष्य वृद्धकलादस्यैवंविधः सङ्कल्पः समुत्पद्यत / यद्येतस्मिन् राजवेश्मनीदृग्विधचरित्राणि सन्ति / ततो मदीयं वेश्मनि कियन्मात्रम् / कोऽहं केन गणनया गण्यते / यतः को जानाति मामितः जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120