Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 49
________________ तया णं महेसरदत्त अण्णया कयाइ नियभारिआ अण्णपुरिससारिसया विलासमाणी पासइ / तया णं एवं अब्भत्थिए - हा ! “इत्थिविसासं मण्णयइ / से मूढपुरिसे"-विद्धवयणं एस सच्चं / तं जहा - वयणं वाणी महुरगविलमणे निग्घाय दिट्ठी, सुकुमाल अण्णपुरिसं विलसइ / अण्णपुरिसं चिंतणं तेण इत्थीविसासं मूढलक्खणं / जहा पएसी सूरीकंता इव भाणियव्वा / इत्थी णं सहावे सत्तदोसा पन्नत्ता / तं जहा - अतहं१ साहसं२ माया३ मूढत्तं४ अइलोहं५ असुअं६ अहिंसाहीणं७ एस सत्तदोसा तेण इत्थी न वीसासं / एवं अब्भत्थिमाणे रोसवसे अण्णपुरिसं घायइ। मिष्टा, कृष्णा मनसि स्त्रियः पापचरित्रकारिण्यः, निघृणा देहे सुकुमालिन्यः कर्मतः कठोराः / यतः - आलिङ्गत्यन्यमन्यं रमयति वचसा वीक्ष्यते चान्यमन्यम् / रोदत्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणीते / शेते चान्येन सार्धं शयनमुपगता चिन्तयत्यन्यमन्यम् / स्त्री वामेयं प्रसिद्धा जगति बहुमता केन दृष्टेन सृष्टाम् // 1 // इति हार्दम् / यदन्यपुरुषेण विलसन्त्यन्यं मनसि विचिन्तयन्त्यन्यं निर्भर्त्सयन्त्यन्यं विडम्बयन्ति / यतः - सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति / एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति // 1 // अतः स्त्रीविश्वासं मूर्खलक्षणम् / यथा प्रदेशीसूरीकान्तेव स्त्रीचरित्राणि बोद्धव्यानि। स्त्रीस्वभावे सप्तदोषाः प्रज्ञप्तास्तद्यथा - अनृतम्, साहसम्, माया, मूर्खत्वम्, अतिलोभता, अशौचम्, निर्दयत्वं, च स्त्रीणां दोषाः स्वभावजाः 1 / तेनार्थेन स्त्रीणां विश्वासो न कर्तुं योग्यः, एवं विचिन्तयन् रोषवशतोऽन्यं पुरुषं हन्ति / सोऽन्यपुरुषः स्वात्मदोषं स्वल्पं विजानन्नात्मानं निन्दन् कालं कृत्वा तस्यैव गृहे तत्स्त्रीकुक्षौ स्ववीर्यमध्ये गर्भत्वेन समुत्पन्नः / स जारनरो नवसु मासेषु व्यतिक्रान्तेषु यावद्दारकं जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120