Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 25
________________ कहिं अत्थि ? वीयसोगाबाहिरं पुरत्थिमे दिसाए उज्जाणे तत्थ अत्थि / तए णं ते सिवकुमारे जेणेव धम्मायरिए तेणेव उवागच्छइ उवागच्छित्ता वंदइ वंदित्ता एवं वयासी - तुम्हं के धम्मे पन्नत्ते ? तया णं धम्मायरिए पुव्वभव-देवभवं निवेइयं / सिवं जाइसरणं समुप्पन्नं / पुव्वभवं सुच्चा वेराग्गं संभूयं / अणुण्णाट्ठाए जामेव दिसं पाउब्भूए तामेव दिसं पडिगए / जेणेव अम्मापियरो तेणेव उवागच्छइ उवागच्छित्ता जहा मेहे नवरं अणुण्णा न दाविया / तए णं पउमरहे राया दढधम्मा - केनार्थेन साधो दुस्सहं तपः परिषहादि सहसि ? साधुस्तं प्रत्येवमवादीत् - भो शिवकुमार ! धर्मार्थं दुस्सहं सह्यते / शिवो वदति - स्वामिन् ! भवतां को धर्म: ? साधुरवादीत्- भो शिव! मम धर्माचार्या धर्मं विजानन्ति / पुनः शिवो वदति - ते धर्माचार्याः क्व स्थाने सन्ति ? मुनिरुवाच - वीतशोकायां बहिः पूर्वस्यां दिशि यदुद्यानं तत्र सन्ति। ततः शिवकुमारो यत्र धर्माचार्यस्तत्रैवोपागच्छति / धर्माचार्यं वन्दते वन्दित्वैवं वक्ति - स्वामिन् ! भवतां को धर्मः प्रज्ञप्तः ? तत आचार्यैः पूर्वभवः शिवाय निवेदितः / ईहापोहं कुर्वतस्तस्य जातिस्मरणं समुत्पन्नम्। स्वपूर्वभववृत्तान्तं श्रुत्वा वैराग्यं समुत्पन्नम् / ततः सूरीश्वरं वन्दित्वा मातापित्रोरनुज्ञार्थं यस्यां दिशि प्रादुर्भूतस्तामेव दिशां प्रतिगतः / यत्र स्वसौधे मातापितरौ तत्रैवोपागच्छति / यथा मेघकुमारेण ज्ञाताधर्मकथायां मातापितरावनुज्ञार्थमभ्यर्थितौ तथैव परमनुज्ञा न दत्ता / ततः पद्मरथो राजा दृढधर्मनामानं श्रमणोपासकं शब्दापयति / एवं वदति - भो दृढधर्मन् ! श्रुणु, ममैकः पुत्रः, इष्टः, कान्तः मनोज्ञः भूषणकरण्डसमानः, तं प्रत्येवं वद यथा स गृहवासे स्थिरो भवति / ततो दृढधर्मा यत्र शिवोऽस्ति तत्रैवोपागच्छति, वन्दते, तदैवमवादीच्छिवः - भो साधर्मिक! एतदयुक्तं मा कुरु / दृढधर्मा वदति - भो शिव! त्वं भावचारित्रश्रमणोऽसि ततस्त्वमभिवन्दितुं योग्योऽसि / परं भो शिवकुमार ! ममैकं वचनं श्रुणु, मन्यस्व, मत्शिक्षाक्षरं प्रतिपद्यस्व। यावन्मातृपितृभ्यां जीवद्भ्यां चरणं मा गृहाण / भावचारित्रे जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120