Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ भारिआ तेणं तुमं मम भोजाइ सुणेह / 3 / सवक्कपुत्तस्स तुमं कलत्त तेणं तुमं मम वहुअं सुणेह / 4 / मम भरतारस्स तुमे माया तुमं मम सासु सुणेह / 5 / मम भरतार तस्स तुमं भारिया तेणं मम तुमं सवक्कि सुणेह / 6 / ए छ नायरे साहुणी कुबेरसेणा पइ भासिता। एवं अट्ठारस नायरे गब्भघरमज्झे कुबेरसेणाए सुच्चा आसुरत्ते सालं उवागए / एवं वयासी - साहुणी ! एस असमंजसवयणं असच्चं केणतुणं वयइ / ततो मात्रा सार्द्ध कुबेरसेनया सह षड्गोत्रा भाषयति - तद्यथा मातः कुबेरसेने ! श्रुणु तथा मां त्वं प्रसूता तवात्मजाऽहं ततस्त्वं मम माता श्रुणु 1 / मत्पिता कुबेरदत्तस्तस्य माता त्वं तेन पितामही श्रुणु 2 / मभ्रातृभार्यात्वेन मम भ्रातृजाया श्रुणु 3 / मत्सपत्नीपुत्रस्य त्वं जाया तेन.मद्वधू श्रुणु 4 / मद्भर्तुस्त्वं माता ततो मम श्वश्रू श्रुणु 5 / मद्भर्तुस्त्वं भार्या तेन मत्सपत्नी श्रुणु 6 / एते षट्नातरकाः साध्व्या मातरं कुबेरसेनां प्रति भाषिताः / एवं सर्वमीलनेऽष्टादशगोत्रा नातरकाः सञ्जाताः / ततो गर्भगृहगता कुबेरसेना श्रुणोति / तान् श्रुत्वाऽऽसुरत्वं चण्डत्वभावमुपस्थिता / साध्वीनिकटमुपागता एवमवादीत् - साध्वि! महाव्रतधारिणि ! त्वमेतदसमञ्जसवचनमसत्यं केनार्थेन वदसि ? एषः किं साध्वीधर्मो ? यतः साधवोऽशुभमयुक्तमश्रुतं न भणन्ति / एषः साधुधर्मः, त्वयाऽश्रुतपूर्व वाक्यं कथमवाचि? तयेत्युक्ते साध्वी मितमञ्जुलमधुरवाण्या तां प्रत्येवमवादीत् - कुबेरसेने ! श्रुणु। साध्व्योऽलीकमसमञ्जसवाक्यं न वदन्ति / पुनरपि कुबेरसेना विनयेन साध्वीमेवं परिपृच्छति - साध्वी ! सत्यं वद / ततः साध्व्या पश्चात्सर्वमामूलचूलतः सर्वं सत्यं स्वानुभूतं निवेदितं यथाजातम् / ततः कुबेरदत्तया मञ्जूषादिवृत्तान्तं प्रकाशितम् / तत्श्रुत्वा कुबेरसेनाऽतीवपश्चात्तापं विदधति / बहुवैराग्यभावेन संवेगमुपागता संयमं गृहाति। तत उग्रतपसा कर्मनिर्बलं कृत्वाऽनशनेन मृत्वा देवलोकं प्राप्ता / कुबेरदत्ता साध्व्यपि चारित्रं सम्यक् प्रपाल्यान्तेऽनशनाराधनादिसमाधिमरणेन मृत्वाऽनुक्रमेण सद्गतिं गता। जंबु अज्झयणं : जम्बूचरितम् 29

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120