Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 42
________________ उवागच्छइ उवागच्छित्ता वेसं कुबेरसेणं साहुणी एवं वयासी - कुबेरसेणा ! मम ! उवस्सयं दावेह / तया णं वेसा वयइ-एस सालाए चिट्ठह तया णं एस मम पोयं रोवइ तया णं एस पालणं हल्लोलेह / तया णं ते साहुणी तत्थ ठिया / ते सालामज्झे गब्भघरए कुबेरसेणाए सद्धिं कुबेरदत्त विविहं कामं वियरइ। तेणं समएणं पालणं पोय रोयइ / मज्झत्थि वेसा वयइ-साहुणी ! पोअ पंजरं हल्लोलेह / तया णं ते साहुणी महुरवयणेण हालरुअं गाएइ / तं जहा- बालग ! मा रोयह तुमं मम एग माया बंधव मा रोयह / 1 / मम वल्लह कुबेरदत्त तस्स पुत्त द्वौ व्यवहारिकौ परमवयस्यौ स्वेच्छया धुनीतटनिकटे सोल्लासं क्रीडां कुर्वन्तौ तत्रैव समुपस्थितौ / ताभ्यां सा मञ्जूषा यमुना प्रवाहतो निष्कास्य गृहीता। रहसि तामुद्घाट्य तस्थौ / ताभ्यां परस्परमेषः पणकृतो यत्किञ्चिदस्यां मध्ये निर्गमिष्यति तद्विभागं कृत्वा वां गृहीष्यावः / ततो निर्गतं तद्युगलं यस्य गृहे पुत्रोऽस्ति तेन सुता गृहीता। ततः पूर्वनामाङ्कितमुद्रिकां दृष्ट्वा मातृपितृभ्यां तयोस्तन्नामैव रक्षितम् / क्रमेण यौवनमधिगतौ सश्रीकौ, गुणालङ्कृतौ, सुरूपौ, सलावण्यौ तौ द्वावन्योन्यमनुक्रमेण पूर्वकर्मसंयोगतः परिणीतौ / शुभलग्ने मातृपितृभ्यां परिणायितौ / सुखंसुखेन भोगान् विलसन्तौ विचरतः / अन्यदा पतिपत्न्यौ सारिक्रीडां क्रीडन्तौ दिव्यन्तावन्योन्यं मुद्रिकां पश्यतः / निजनिजनामाङ्कितमुद्रिकां विलोकयन्तौ शङ्कितो, काक्षितौ / ततस्तौ द्वावन्योन्यं मातापित्रोनिदानं पप्रच्छतुः / मातृपितृभ्यां सर्वं वृत्तान्तं ताभ्यां प्ररूपितम् / यथा मञ्जूषायां लब्धौ तथाऽऽमूलचूलतो निवेदितम् / ततोऽन्योन्यं भ्रातृभगिन्यौ विज्ञाय कुबेरदत्ताऽतीववैराग्यमनुप्राप्ता साध्वीपार्वे प्रव्रजिता / बहूनि षष्टाष्टमदशमद्वादशादिना नानाविधतपांसि तप्यमाना विचरति / ज्ञानमाराधयति / अन्यदा प्रस्तावे शुक्लध्यानं ध्यायन्तीत्थं वितर्कयन्त्यासीत् / हा जीव ! पापिन् महाकिल्बिषकारिन् त्वं तेभ्यः पातकेभ्यः कथं मुच्यसे ? यतो भ्राताभगिनीं विलसत इति दुष्टकर्मविपाकं परत्रमहाकटुकफलं नरकनिगोदादिगति ईहाञ्चक्रे / एवं शुक्लध्यानपादसंस्पर्शनादवधिज्ञानं समुत्पन्नम् / सा तेन ज्ञानेनाभोगयति, जंबु अज्झयणं : जम्बूचरितम् 26

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120