Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ प्रथम
परिशिष्टम्
धर्मबिन्दुसूत्रपाठः
१६३
सम्यक् तदधिकाख्यानम् ४(६२) । अबोधेऽप्यनिन्दा ५(६३) । शुश्रूषाभावकरणम् ६(६४) । भूयो भूय उपदेश: ७(६५) । बोधे प्रज्ञोपवर्णनम् ८(६६) । तन्त्रावतार:९(६७) । प्रयोग आक्षेपण्या: १०(६८)। ज्ञानाद्याचारकथनम् ११(६९) । निरीहशक्यपालना १२(७०) । अशक्ये भावप्रतिपत्ति: १३(७१) । पालनोपायोपदेश: १४(७२) । फलप्ररूपणा १५(७३) । देवर्द्धिवर्णनम् १६(७४) । सुकुलागमनोक्ति: १७(७५) । कल्याणपरम्पराख्यानम् १८(७६) । असदाचारगर्दा १९(७७) । तत्स्वरूपकथनम् २०(७८) । स्वयं परिहार: २१(७९) । ऋजुभावाऽऽसेवनम् २२(८०) । अपायहेतुत्वदेशना २३(८१) । नारकदुःखोपवर्णनम् २४(८२) । दुष्कुलजन्मप्रशास्ति: २५(८३) । दुःखपरम्परानिवेदनम् २६(८४) । उपायतो मोहनिन्दा २७(८५) । सज्ज्ञानप्रशंसनम् २८(८६) । पुरुषकारसत्कथा २९(८७) । वीर्यर्द्धिवर्णनम् ३०(८८)। परिणते गम्भीरदेशनायोग: ३१(८९) । श्रुतधर्मकथनम् ३२(९०) । बहुत्वात् परीक्षावतार: ३३(९१) । कषादिप्ररूपणा ३४(९२) । विधिप्रतिषेधौ कष: ३५(९३) । तत्सम्भवपालनाचेष्टोक्तिश्छेद: ३६(९४)। उभयनिबन्धनभाववादस्ताप: ३७(९५) । अमीषामन्तरदर्शनम् ३८(९६) । कषच्छेदयोरयत्न: ३९(९७) । तद्भावेऽपि तापाभावेऽभाव: ४०(९८) । तच्छुद्धौ हि तत्साफल्यम् ४१(९९) । फलवन्तौ च तौ तौ ४२(१००)। अन्यथा याचितकमण्डनम् ४३(१०१) । नातत्त्ववेदिवाद: सम्यम्वादः ४४(१०२) । बन्धमोक्षोपपत्तितस्तच्छुद्धिः ४५(१०३) । इयं बध्यमान-बन्धनभावे ४६(१०४) । कल्पनामात्रमन्यथा ४७(१०५) । बध्यमान आत्मा, बन्धनं वस्तुसत् कर्म ४८(१०६) । हिंसादयस्तद्योगहेतवः , तदितरे तदितरस्य ४९(१०७) । योग: प्रवाहतोऽनादिमान् ५०(१०८) । कृतकत्वेऽप्यतीतकालवदुपपत्ति: ५१(१०९) । वर्तमानताकल्पं कृतकत्वम् ५२(११०)। परिणामिन्यात्मनि हिंसादयः , भिन्नाभिन्ने च देहात् ५३(१११) । अन्यथा तदयोग: ५४(११२) । नित्य एवाविकारतोऽसंभवात् ५५(११३) । अनित्ये चापराहिंसनेन ५६(११४) । भिन्न एव देहान्न स्पृष्टवेदनम् ५७(११५)। निरर्थकश्चानुग्रहः ५८(११६) । अभिन्न एवामरणं वैकल्यायोगात् ५९(११७) । मरणे परलोकाभाव: ६०(११८)। देहकृतस्यात्मनाउनुपभोग: ६१(११९) । आत्मकृतस्य देहेन ६२(१२०) । दृष्टेष्टबाधा ६३(१२१) । अतोऽन्यथैतत्सिद्धिरिति तत्त्ववादः ६४(१२२) । परिणामपरीक्षा ६५(१२३) । शुद्धे बन्धभेदकथनम् ६६(१२४) । वरबोधिलाभप्ररूपणा ६७(१२५) । तथाभव्यत्वादितोऽसौ ६८(१२६) । ग्रन्थिभेदे नात्यन्तसंक्लेश: ६९(१२७) । न भूयस्तद्वन्धनम् ७०(१२८) । असत्यपाये न दुर्गतिः ७१(१२९)। विशुद्धेश्चारित्रम् ७२(१३०) । भावनातो रागादिक्षय: ७३(१३१) । तद्भावेऽपवर्ग: १.प्रतिषु पाठा:- योगः ॥ प्रवाहतो १ । योग: प्रवाहतो D. I योगः । प्रवाहतो K१० । योग: K१सं० J.K.L. मध्ये नास्ति ।
Jan Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379