Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सवृत्तिके धर्मबिन्दौ प्रथम परिशिष्टम्
धर्मबिन्दुसूत्रपाठः
१६५
दानं यथाऽहं साकल्यवैकल्याभ्याम् १९(१५२) । गृहीतेष्वनतिचारपालनम् २०(१५३) । शङ्का १ काङ्क्षा २ विचिकित्सा ३ ऽन्यदृष्टिप्रशंसा-संस्तवा: ४-५ सम्यग्दृष्टरतीचारा: २१(१५४) । व्रतशीलेषु पञ्च पञ्च यथाक्रमम् २२(१५५) । बन्ध १ वध २ च्छविच्छेदा ३ तिभारारोपणा ४ऽन्न-पाननिरोधा: ५ २३(१५६) । मिथ्योपदेश १ रहस्याभ्याख्यान २ कूटलेखक्रिया ३ न्यासापहार ४ स्वदारमन्त्रभेदा: ५ २४(१५७) । स्तेनप्रयोग १ तदाहृतादान २ विरुद्धराज्यातिक्रम ३ हीनाधिकमानोन्मान ४ प्रतिरूपकव्यवहारा: ५ २५(१५८) । परविवाहकरणे १ त्वरपरिगृहीता २ ऽपरिगृहीतागमना ३ ऽनङ्गक्रीडा ४ तीव्रकामाभिलाषा: ५ २६(१५९) । क्षेत्रवास्तु १ हिरण्यसुवर्ण २ धनधान्य ३ दासीदास ४ कुप्यप्रमाणातिक्रमा: ५ २७(१६०) । ऊर्ध्वाधस्तिर्यग्व्यतिक्रम ३ क्षेत्रवृद्धि ४ स्मृत्यन्तर्धानानि ५ २८(१६१) । सच्चित्त १ संबद्ध २ सन्मिश्रा ३ ऽभिषव ४ दुष्पक्वाहारा: ५ २९(१६२) । कन्दर्प १ कौत्कुच्य २ मौखर्या ३ समीक्ष्याधिकरणो ४ पभोगाधिकत्वानि ५ ३०(१६३) । योगदुष्प्रणिधाना ३ ऽनादर ४ स्मृत्यनुपस्थापनानि ५ ३१(१६४) । आनयन १ प्रेष्यप्रयोग २ शब्द ३ रूपानुपात ४ पुद्गलक्षेपा: ५ ३२(१६५) । अप्रत्युपेक्षिताप्रमार्जितोत्सर्गा १ ऽऽदाननिक्षेप २ संस्तारोपक्रमणा ३ ऽनादर ४ स्मृत्यनुपस्थापनानि ५ ३३(१६६) । सचित्तनिक्षेप १ पिधान २ परव्यपदेश ३ मात्सर्य ४ कालातिक्रमा: ५ ३४(१६७) । एतद्रहिताणुव्रतादिपालनं विशेषतो गृहस्थधर्मः ३५(१६८) । क्लिष्टकर्मोदयादतीचारा: ३६(१६९) । विहितानुष्ठानवीर्यतस्तज्जयः ३७(१७०)। अत एव तस्मिन् यत्नः ३८(१७१) । सामान्यचर्याऽस्य ३९(१७२)। समानधार्मिकमध्ये वास: ४०(१७३) । वात्सल्यमेतेषु ४१(१७४)। धर्मचिन्तया स्वपनम् ४२(१७५)। नमस्कारेणावबोध: ४३(१७६) । प्रयत्नकृतावश्यकस्य विधिना चैत्यादिवन्दनम् ४४(१७७) । सम्यक् प्रत्याख्यानक्रिया ४५(१७८) । यथोचितं चैत्यगृहगमनम् ४६(१७९) । विधिनाऽनुप्रवेश: ४७(१८०) । उचितोपचारकरणम् ४८(१८१) । भावतः स्तवपाठ: ४९(१८२) । चैत्यसाधुवन्दनम् ५०(१८३) । गुरुसमीपे प्रत्याख्यानाभिव्यक्ति: ५१(१८४) । जिनवचनश्रवणे नियोगः ५२(१८५) । सम्यक् तदर्थालोचनम् ५३(१८६) । आगमैकपरता ५४(१८७) । श्रुतशक्यपालनम् ५५(१८८) । अशक्ये भावप्रतिबन्ध: ५६(१८९) । तत्कर्तृषु प्रशंसोपचारौ ५७(१९०) । निपुणभावचिन्तनम् ५८(१९१) । गुरुसमीपे प्रश्न: ५९(१९२) । निर्णयावधारणम् ६०(१९३) । ग्लानादिकार्याभियोग: ६१(१९४) । कृताकृतप्रत्युपेक्षा ६२(१९५)। उचितवेलयाऽऽगमनम् ६३(१९६) । धर्मप्रधानो व्यवहारः ६४(१९७) । द्रव्ये संतोषपरता ६५(१९८) । धर्मे धनबुद्धिः ६६(१९९) । शासनोन्नतिकरणम् ६७(२००) । विभवोचितं विधिना क्षेत्रदानम् ६८(२०१) । सत्कारादिविधिनि:सङ्गता च ६९(२०२) । वीतरागधर्मसाधवः क्षेत्रम् ७०(२०३) । दुःखितेष्वनुकम्पा यथाशक्ति १.वध-बन्ध १K१ मू० ॥ २: भिनिवेशा: १॥ ३.सचित्त DJ.K.L. ||
१६५
Jain Education International
For Private & Personal Use Only
wow.jainelibrary.org