Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम्
२७१
अस्मिन्नित्यादि । अस्मिन् प्रवचने आगमे हृदयस्थे सति हृदयप्रतिष्ठिते सति । हृदयस्थश्चित्तस्थस्तत्त्वत: परमार्थेन मुनीन्द्रः सर्वज्ञ इति कृत्वा हृदयस्थिते च तस्मिन् भगवति मुनीन्द्रे नियमानियमेन सर्वथा(र्वार्थ)संसिद्धिः सर्वथा(वार्थ) निष्पत्तिः ।।२।१४।। इति आचार्यश्रीहरिभद्रसूरिविरचिते यशोभद्रसूरिविरचितटीकासहिते षोडशके॥
पृ० ११५ पं० १७ ॥ "लेपवत् जगार्यादि तन्मिश्रं वा अलेपवद्वा तद्विपरीतम् अमुकं द्रव्यं वा मण्डकादि अद्य ग्रहीष्यामि, अमुकेन वा द्रव्येण दर्तीकुन्तादिना अथ अयं द्रव्याभिग्रहो नाम साध्वाचरणाविशेष इति गाथार्थः ॥२९८॥" इति पञ्चवस्तुकस्य स्वोपज्ञवृत्तौ । पृ० ११६ पं० १५ ॥ "चत्तारि विचित्ताई विगईणिजूहिआई चत्तारि । संवच्छरे उ दोण्णि उ एगंतरिअं च आयामं ॥१५७४॥ णाइविगिट्ठो विशिष्टानि अतवो छम्मासे परिमिअंच आयामं । अण्णेऽवि अ छम्मासे होइ विगिटुं तवोकम्मं ॥१५७५।। वासं कोडीसहिअं आयामं तह य आणुपुव्वीए
टिप्पणानि । संघयणादणुरूवं एत्तो अद्धाइ निअमेण ॥१५७६॥
चतुरः संवत्सरान् विचित्राणि तपांसि करोति षष्ठादीनि, तथा विकृतिनियूंढानि निर्विकृतिकानि चत्वारि, एवं संवत्सरौ द्वौ च तदूर्ध्वमेकान्तरितमेव च नियोगत: आयामं तपः करोतीति गाथार्थः ॥१५७४|| नातिविकृष्टं च तपः चतुर्थादि षण्मासान् करोति, तत ऊर्ध्वं परिमितं चाऽऽयामं तत्पारणक इति, तैलगण्डूषधारणं च मुखभने, अन्यानपि च षण्मासान् अत ऊर्ध्वं भवति विकृष्टम् अष्टमाद्येव तप:कर्मेति गाथार्थः ॥१५७५॥ वर्षकोटीसहितमायामं तथा चानुपूर्व्या एवमेव संहननाद्यनुरूपम्, आदिशब्दाच्छक्त्यादिग्रहः, अत: उक्तात् कालादर्द्धादि अर्द्ध प्रत्यर्द्ध वा नियमेन करोति, इह च कोटीसहितमित्येवं वृद्धा ब्रुवते-पट्ठवणओ य दिवसो पच्चक्खाणस्स कोणो य मिलयइ, कहं ? गोसे आवस्स अब्भत्तहो गहिओ, अहोरतं अच्छिऊण पच्छा पुणरवि अब्भत्तद्वं करेइ, बीयस्स पट्ठावणा पढमस्स निट्ठवणा, ए दोवि कोणा एगत्थ दोवि मिलिआ, अट्ठमादिसु दुहओ कोडिसहियं, जो चरिमदिवसो तस्सवि एगा कोडी, एवं आयंबिलनिव्वीइयएगासणएगट्ठाणगाणि वि, अहवा इमो अण्णो विही-अब्भत्तटुं कयं, आयंबिलेण पारियं, पुणरवि अब्भत्तहँ करेइ आयंबिलं च, एवं एगासणगाईहि वि संजोगा कायव्वा, णिविगतिगाइसु सव्वेसु सरिसेसु विसरिसेसु य, एत्थ आयंबिलेणाहिगारोत्ति गाथार्थः ॥१५७६।।"इति स्वोपज्ञवृत्तिसहिते पञ्चवस्तुके ।
पृ० ११८ पं०६ ॥ “आईमज्झवसाणे छग्गोयरहिंडगो इमो णेओ। णाएगरायवासी एगं व दुगं व अण्णाए ॥१८॥
२७१
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379