Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
षष्ठं परिशिष्टम्
२८९
Jain Education International
तमृषिं बन्धवः सर्वे भक्तपानादिभिर्मुदा । एषणीयकल्पनीयप्रासुकैः प्रत्यलाभयन् ॥३११॥ तदानीं भवदेवोऽपि कुलाचारं प्रपालयन् । सेव्यमानां वयस्याभिर्नवोढां मण्डयन्नभूत् ॥ ३१२|| चक्रेऽङ्गरागं प्रेयस्याः श्रीचन्दनरसेन सः । चन्द्रातपप्रदेनेवाकृष्टेन शशिमण्डलात् ॥३१३॥ तस्या मूर्ध्नि च धम्मिल्लं सुमनोदामगर्भितम् । बबन्ध ग्रस्तशशिनः स्वर्भाणोः श्रीमलिम्लुचम् ॥३१५॥ तत्कपोलफलकयोः कस्तूर्या पत्रवल्लरीम् । मीनकेतोरिव जयप्रशस्तिमलिखत्स्वयम् ॥३१५॥ कुचयोर्मण्डनं यावन्नवोढः स प्रचक्रमे । तावदागममश्रौषीद् भवदत्तमहामुनेः ॥ ३१६॥ सभ्रातृदर्शनोत्ताल: कितवो जयवानिव । द्रागुदस्थाद्विहायार्धमण्डितामपि वल्लभाम् ||३१७|| हित्वार्धमण्डितां कान्तां न गन्तुमुचितं तव । तस्याः सखीनामित्युक्तिं स एड इव नाशृणोत् ॥ ३१८|| साग्रहं वारयन्तीनां तासां चेत्युत्तरं ददौ । कृत्वा गुरुप्रणिपातं पुनरेष्यामि बालिकाः ||३१९|| भवदेवस्ततः स्थानात्प्लवमानः प्रववत् । अभ्येत्य भवदत्तर्षि तत्र स्थितमवन्दत ॥ ३२०|| वन्दित्वोत्थितमात्रस्यानुजस्य घृतभाजनम् । मुनिः श्रामण्यदानाय सत्यंकारमिवार्पयत् ॥ ३२१|| भवदत्तस्ततोऽगारादनगारशिरोमणिः । निर्जगाम धियां धाम मनाग्भ्रातरि दत्तदृक् ॥ ३२२|| भवदेवोऽपि तत्सर्पिर्भाजनं धारयन्करे । अन्वगाद् भवदत्तर्षिं तत्पदाम्भोजषट्पदः ॥ ३२३॥ अन्ये बहवो नार्यो नराश्च भवदेववत् । अन्वयुर्भवदत्तर्षिमुदूर्मिप्रमदहदाः || ३२४|| मुनिर्न कञ्चिद्वयसृजन्मुनीनामुचितं ह्यदः । अविसृष्टाश्च मुनिना न व्याववृतिरे जनाः || ३२५ ॥ दूरं गत्वा च निर्विण्णास्तं वन्दित्वा महामुनिम् । स्वमेव व्याजुघुटुरादौ नार्यो नरास्ततः ॥३२६॥ भवदेवस्तु भद्रात्मा चिन्तयामासिवानिदम् । अप्यविसृष्टा व्याघुटन्त्वेते नैते हि सोदराः || ३२७|| अहं तु सोदरोऽमुष्य द्वावावां स्नेहलौ मिथः । तदनेनाविसृष्टस्य न्याय्यं व्याघुटनं न मे ॥३२८॥
For Private & Personal Use Only
मरुदेव्यादीनां
कथा:
२८९
www.jainelibrary.org
Loading... Page Navigation 1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379