Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 366
________________ सवृत्तिके धर्मबिन्दौ परिशिष्टम् २९३ मरुदेव्यादीनां कथा: का हि पुंगणना तेषां येऽन्यशिक्षाविचक्षणाः । ये स्वं शिक्षयितुं दक्षास्तेषां पुंगणना नृणाम् ॥३८३।। भवदेवोऽवदत्साधु शिक्षितोऽस्मि त्वयानघे । आनीत: पथि जात्यन्ध इव यानहमुत्पथे ॥३८४।। तदद्य स्वजनान्दृष्ट्वा यास्यामि गुरुसन्निधौ । व्रतातीचारमालोच्य तप्स्येऽहं दुस्तपं तपः ॥३८५।। नागिलाप्यवदत् किं ते स्वजनैः स्वार्थभाग्भव । मूर्तिमन्तो हि ते विघ्ना भाविनो गुरुदर्शने ॥३८६।। तद् गच्छ गुरुपादान्ते दान्तात्मा व्रतमाचर । प्रव्रजिष्याम्यहमपि व्रतिनीजनसन्निधौ ॥३८७।। भवदेवोऽथ वन्दित्वार्हदिम्बानि समाहितः । गत्वा गुर्वन्तिकेऽकार्षीत्कृत्यमालोचनादिकम् ।।३८८।। श्रामण्यं निरतीचारं भवदेव: प्रपालयन् । कालं कृत्वादिकल्पेऽभूच्छत्रसामानिकः सुरः ॥३८९॥" इति हेमचन्द्राचार्यविरचिते परिशिष्टपर्वणि प्रथमसर्गे ॥ पृ० १४१ पं०१। शालिभद्रादीनामिव ...। - "मणिकणगरयणधणपूरियंमि भवणंमि सालिभद्दोऽवि । अन्नो किर मज्झ वि सामिओत्ति जाओ विगयकामो ॥४५॥ मणिकणग० गाहा, तत्र तावत् कथानकं कथ्यते- धन्याभिधानाया उच्छिन्नकुलाया वत्सपाल्यास्तनयः सङ्गमनामा इन्द्रोत्सवे गृहे गृहे क्षीरानं खाद्यमानं दृष्ट्वा तन्मातरं याचितवान् । ततः क्षीराद्यभावाज्जातखेदां तामुपलभ्य दत्तं तत्पाटकवासिनारीभिरनुकम्पया तत्तस्याः राद्धमनया दत्तं सनमाय भाजने । अत्रान्तरे समागतो मासपारणिको मुनिः, जातहर्षेण दत्तस्तस्मै संविभागोऽनेन, ततोऽतिलोलतया पायसस्य बहुभक्षणेन जातविसूचिको मृत्वाऽसौ साधुदानोपार्जितपुण्यप्राग्भारवशाबाजगृहे गोभद्रत्रेष्ठिनो भद्रायाः शालिस्वप्नसूचितो विविधमनोरथपूरको जातस्तनयभावेन, प्रतिष्ठितं नाम शालिभद्र इति । प्राप्तः क्रमेण यौवनम्, परिणीतास्त्रिभुवनातिशायिरूपा द्वात्रिंशत्कन्यका:, बुभुजे भोगान् ।। __ इतश्च विधिना कालं कृत्वा गतो दिवं तज्जनकः, प्रयुक्तावधेस्तत्पुण्यचोदितस्य जातोऽस्य शालिभद्रं प्रति खरतर: स्नेहः । ततो दर्शितात्मरूप: प्रतिदिनं दिव्यवस्त्रा-ऽलकार-विलेपन-कुसुमादीनि तस्मै सवधूकायोपजहार । भवनं च रत्नादीनां बभार। ___ अन्यदा तत्र केचिद्रत्नकम्बलचट्टा: समायाताः, दर्शितानि राजकुले, अतिमहर्घाणीति न गृहीतानि श्रेणिकेन, गता भद्रामन्दिर, तया तु निर्विचार | २९३ Jain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379