Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 369
________________ सवृत्तिके धर्मबिन्दौ सप्तमं परिशिष्टम् २९६ सप्तमं परिशिष्टम् [उपदेशपदवृत्तेरन्ते आचार्यश्रीमुनिचन्द्रसूरिभिः संक्षेपेण निर्दिष्टम् आचार्यश्रीहरिभद्रसूरीणां जीवनवृत्तम्] "सिद्धस्तावदयं ग्रन्थः, परं केन रचित इत्यस्यां जिज्ञासायां ग्रन्थकार एव कृतज्ञतागां स्वनामाङ्कामिमां गाथामाह जाइणिमयहरियाए रइता एते उ धम्मपुत्तेण । हरिभदायरिएणं भवविरहं इच्छमाणेणं ॥१०३९॥ याकिनीमहत्तराया याकिनीनामिकायाः श्रुतशीलजलधिवेलाया: प्रवर्त्तिन्या:, रचितानि दृब्धान्येतानि त्वेतानि पुनरुपदेशपदानि, धर्मपुत्रेण धर्म प्रतीत्य नन्दनेन तदन्तरंगधर्मशरीरनिष्पादकत्वात् तस्याः । केनेत्याह-हरिभद्राचार्येण, य: किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्कुटपठिताष्टव्याकरण: सर्वदर्शनानुयायित:कर्कशमतिरत एव मतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधे तच्छिष्यभावः, आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराश्रयसमीपगमनोपलब्ध 'चक्किदुर्ग हरिपणगं' इत्यादिगाथासूत्रः, निजनिपुणोहापोहयोगेऽपि कथमपि स्वयमनुपलब्धतदर्थः, तदवगमाय महत्तरोपदेशात् श्रीजिनभट्टाचार्यपादमूलमुपसर्पनन्तरा जिनबिम्बावलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुच्चरित '- 'वपुरेव तवाचष्टे - इत्यादिश्लोकः, सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायसी स्वसमयपरसमयकुशलतामवाप्य महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दश प्रकरणशतानि चकार तेन हरिभद्रनाम्नाऽऽचार्येण कीदृशेनेत्याह-भवविरहं संसारोपरममिच्छताऽभिलषता ॥१०३९।। ॥ इति समाप्तेयं सुखसम्बोधनी नामोपदेशपदवृत्तिः ॥" उपदेशपदवृत्तेरन्ते आचार्यश्रीमुनिचन्द्रसूरिविरचिता स्वगच्छगुरुपरम्परादिसूचिका प्रशस्तिः] 'क्षमालीनोऽत्यन्तं गगनतलतु कमहिमा, दधानः शैली च स्थितिमतिशुचिं साधुरुचिताम् ।। बृहद्गच्छोऽतुच्छोच्छलितशुभसत्त्वः समभवत्, सुवंशच्छायाढ्यः स्फुटमुदयनामा नग इव ॥१॥ तत्रोदियाय तमसामवसायहेतुर्निस्तारकद्युतिभरो भुवनप्रकाशः । श्रीसर्वदेव इति साधुपतिनमस्यपादो नवार्क इव सन्नतमीनकेतुः ॥२॥ १."चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसब चक्की केसव दु चक्की केसी अ चक्की अ।" -आव०नि० ४२१ ॥ २.वपुरेव तवाचष्टे भगवन् वीतरागताम् । न हि कोटरसंस्थेऽयौ तरुर्भवति शाहलः॥ राय महत्तरोपदेशातराश्रयसमीपगममोपलवामतिमतामग्रगण्य : किल श्रीचित्रकूटा | २९६ Jan Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379