Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबन्दी
षष्ठं परिशिष्टम्
२९२
Jain Education International
तदाग्रजोपरोधेन तां विमुच्य निरीयुषा । अनिच्छतापि हि मया व्रतमादायि दुष्करम् ॥३६५|| विपन्ने साम्प्रतं भ्रातर्यहमङ्कुशवर्जितः । नागिला सा कथमभूदित्यागां तद्दिदृक्षया || ३६६ || नागिला चिन्तयामास चिराद् दृष्टां हि मामसौ । न हि प्रत्यभिजानाति परावृत्तवयोगुणाम् || ३६७|| आत्मानं ज्ञापयाम्येनमिति प्रोवाच नागिला । नागिला सास्म्यहं हन्त नवोढाऽत्याजि या त्वया || ३६८ ॥ एतावता च कालेन यौवनेऽपि व्यतीयुषि । किं नाम मयि लावण्यं पुण्याशय विमृश्यताम् ॥ ३६९ ॥ मुक्त्वा रत्नत्रयं स्वर्गापवर्गफलदायकम् । वराटिकामात्रनिभां मा ग्रहीम महाशय ||३७०|| अत्यन्तघोरनरकपातप्रतिभुवामहो । विषयाणां स्मरास्त्राणां मा गास्त्वं भेदनीयताम् || ३७१ ॥ ग्राहितोऽसि व्रतं भ्रात्रा छद्यनापि हितैषिणा । तमप्यनाप्तं मा संस्था मयि पापखनौ रतः || ३७२ || तदद्यापि निवर्तस्व गुरुपादाननुव्रज । मयि रागकृतं चाघमालोचय तदन्तिके ॥ ३७३ ॥ यावदेवं भवदेवं नागिला भृशमन्वशात् । ब्राह्मण्या दारकस्तावत्तत्रागाद् भुक्तपायसः || ३७४|| ऊचे च पायसं भुक्तं यन्मयाद्य सुधोपमम् । तद्वमिष्याम्यहं मातरधो धारय भाजनम् || ३७५॥ निमन्त्रितोऽहमन्यत्र लप्स्ये तत्र च दक्षिणाम् । अवान्तपायसो मातर्भोक्तुं शक्ष्यामि नो पुनः ||३७६ ॥ आदाय दक्षिणामागतो भूयोऽपि पायसम् । स्वयं वान्तं स्वयं भोक्ष्ये का हीः स्वोच्छिष्टभोजने ॥ ३७७|| ब्राह्मण्युवाच वान्ताशी जुगुप्स्यस्त्वं भविष्यसि । अलं जुगुप्सनीयेन कर्मणानेन दारक || ३७८|| तच्छ्रुत्वा भवदेवोऽपि निजगादेति हे बटो । त्वं भविष्यसि वान्ताशी निकृष्टः कुक्कुरादपि ॥ ३७९ || नागिलोवाच तमृषिं यद्येवं वेत्सि वक्षि च । तन्मामुद्वम्य किमिति भूयोऽप्युपबुभुक्षसे ||३८०|| मांसासृगस्थिविण्मूत्रपूर्णाहमधमाधमा । वान्तादपि जुगुप्स्याऽस्मि मामिच्छन् किं न लज्जसे || ३८१|| पश्यस्यद्रौ ज्वलदग्निं न पुनः पादयोरधः । यत्परं शिक्षयस्येवं न स्वं शिक्षयसि स्वयम् ॥ ३८२॥
For Private & Personal Use Only
मरुदेव्यादीनां
कथा:
२९२
www.jainelibrary.org
Loading... Page Navigation 1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379