Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 346
________________ सवृत्तिके धर्मबिन्दौ चतुर्थ परिशिष्टम् २७३ विशिष्टानि टिप्पणानि गच्छे च्चिय कुणइ दुविहपरिकम्मं आहारोवहिमाइसु तहेव पडिवज्जए कप्पं ॥१॥ आहारादिप्रतिकर्म दर्शयिष्यते, परिकर्मपरिमाणं चैवम्-आसामाद्यासु सप्तसु या यावत्परिमाणा तस्यास्तत्प्रमाणमेव प्रतिकर्म, तथा वर्षासु नैता: प्रतिपद्यते न च प्रतिकर्म करोति, तथा आद्यद्वयमेकत्रैव वर्षे, तृतीयचतुर्थ्यो। चैकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे प्रतिकर्म, अन्यत्र च प्रतिपत्तिः, तदेवं नवभिः वर्षेराद्याः सप्त समाप्यन्त इति । अथ तस्य कियान् श्रुताधिगमो भवतीत्याह- यावत् पूर्वाणि दशेति प्रतीतम् असंपूर्णानि किञ्चिदूनानि, सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमादिकल्पं न प्रतिपद्यते, भवेत् स्यात् श्रुताधिगम इति योगः, उत्कृष्टश्चायम्, जघन्यस्य वक्ष्यमाणत्वात्, अथ जघन्यमेवाहनवमस्य पूर्वस्य प्रत्याख्याननामधेयस्य तृतीयवस्तु आचाराख्यं तद्भागविशेष यावदिति वर्तते भवति स्यात् जघन्योऽल्पीयान् श्रुताधिगमः श्रुतज्ञानं सूत्रतोऽर्थतश्च, एतच्छुतविकलो हि निरतिशयज्ञानत्वात् कालादि न जानातीति ।" इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके । पृ० १२३ पं० ४ ॥ “पढमिल्लुगसंघयणा धिईए पुण वज्जकुड्डसामाणा | ... ॥१३८६॥ जिनकल्पिका: प्रथमिल्लुकसंहनना: वज्रर्षभनाराचसंहननोपेता: धृत्या अङ्गीकृतनिर्वाहक्षममन:प्रणिधानरूपया वज्रकुड्यसमानाः" इति क्षेमकीर्तिसूरिविरचितवृत्तिसहिते बृहत्कल्पभाष्ये पृ०१२६ पं० ११ ॥ "ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ।११।६।। वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥११॥७॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसपि चिन्तामयं तत् स्यात् ॥११८॥ ऐदम्पर्यगतं यद् विध्यादौ यलवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥११॥९॥ ऊहेत्यादि । ऊहो वितर्कः, ऊहापोहविज्ञानादिरहितमाद्यं प्रथमं श्रुतमयम्, तद्युक्तम् ऊहादियुक्तं मध्यमं चिन्तामयं भवेत् ज्ञानं द्वितीयम्, चरमं भावनामयं तृतीयं हितकरणफलं हितकरणं फलमस्येति स्वहितनिर्वर्तनफलम्, विपर्ययो विपर्यासो मिथ्याज्ञानं मोहतो मोहात् मिथ्यात्त्वमोहनीयोदयात् ज्ञानत्रयादन्योऽबोध इति ॥६॥ श्रुतमयज्ञानस्य लक्षणमाह-वाक्यार्थेत्यादि । सकलशास्त्रगतवचनाविरोधिनिर्णीतार्थवचनं वाक्यं तस्यार्थमात्रं प्रमाणनयाधिगमरहितं तद्विषयं-तद्गोचरं वाक्यार्थमात्रविषयम्, न तु परस्परविभिन्न विषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयम्, कोष्ठके लोहकोष्ठकादौ गतं स्थितं यद् बीजं-धान्यं तत्सन्निभमविनष्टत्त्वात् कोष्ठकगतबीजसन्निभं ज्ञानं श्रुतमयमिह-प्रक्रमे विज्ञेयं-वेदितव्यं मिथ्याभिनिवेश: Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379