Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 349
________________ सवृत्तिके | पृ० १४४ पं० १०॥ "असन्नी खलु पढमं दुच्चं च सरीसवा तइय पक्खी । सीहा जंति चउत्थिं उरगा पुण पंचमि पुढविं ॥२८४।। धर्मबिन्दी छटिं च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं । एसो परमुववाओ बोधव्वो नरयपुढवीसु ॥२८५॥ चतुर्थ असंज्ञिनः संमूर्छिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तच्चावधारणमेवम् - असंज्ञिन: प्रथमामेव यावद् परिशिष्टम् गच्छन्ति, न परत इति, न तु त एव प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीषट्कगामिनां तत्र गमनभावात् । एवमुत्तरत्राप्यवधारणं भावनीयम् । दुच्चं च सरीसव त्ति द्वितीयामेव शर्कराप्रभाख्याम् पृथिवीं यावद् गच्छन्ति सरीसृपा गोधा-नकुलादयो गर्भव्युत्क्रान्ता न परतः, एवं तृतीयामेव गर्भजा: पक्षिणो गृध्रादय:, चतुर्थीमेव गर्भजा: सिंहाः, पञ्चमीमेव गर्भजा उरगाः, षष्ठीमेव स्त्रिय: स्त्रीरत्नाद्या महारम्भादियुक्ताः । सप्तमी यावद् । विशिष्टानि २७६ गर्भजा मत्स्य-मनुजा अतिक्रूराध्यवसायिनो महापापकारिणः । एष नरकपृथिवीषु धर्मादिषु भेदेन जीवविशेषाणां परम उत्कृष्ट उपपातो बोद्धव्यः टिप्पणानि । जघन्यतो मध्यमतस्त्वन्यथा, तत्र जघन्यत: सर्वेषामपि रत्नप्रभायाः पृथिव्याः प्रथमे प्रस्तटे, मध्यमतो जघन्यात् परत: स्व-स्वोत्कृष्टोपपातादर्वाक् ॥२८४-२८५॥” इति मलयगिरिसूरिविरचितवृत्तिसहितायां बृहत्संग्रहण्याम् ॥ पृ० १४५ पं० ९॥ “आणोहेणाणंता मुक्का गेवेज्जगेसु उ सरीरा । ण य तत्थासंपुण्णाए साहुकिरियाए उववाओ ।।१४।४८।। आणो० गाहा । आज्ञेति आगमोऽयं यदुत ओघेन सामान्येन भव्याभव्यजीवापेक्षयेत्यर्थः, अथवा आज्ञाया आप्तोपदेशस्य ओघ: सामान्यम् आज्ञौघ: सम्यग्दर्शनविकलमाज्ञामात्रमित्यर्थः, तेन सतापीति गम्यम् अनन्तानि अनन्तसंख्यानि मुक्तानि त्यक्तानि जीवैरतीतकाले ग्रैवेयकेषु तु ग्रैवेयकाभिधानविमानविशेषेष्वपि, किं पुनरन्यत्र ?, शरीराणि देहा: यदाह- एगमेगस्स णं भंते मणूसस्स गेवेज्जगदेवत्ते केवइया दव्विंदिया अईया ? गोयमा । अणंत [ ] त्ति । न च न पुनः तत्र गैवेयकेषु असंपूर्णया खण्डया साधुक्रियया संयतानुष्ठानेन उपपात उपपाद इति गाथार्थः ।" इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके ॥ २७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379