Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
मरुदेव्यादीनां
कथाः
सवृत्तिके | संवृत्तेति ॥४१॥” इति वृत्तिसहिते उपदेशपदे। धर्मबिन्दौ पृ० ६५ पं० १ आर्यसुहस्ती ..... । पृ० १३१ पं० १४ । आर्यसुहस्तिदीक्षितद्रमक ... षष्ठं
"सुहस्तिनं नमस्कृत्य ततः प्रोवाच पार्थिवः । किं नाम मां यूयमुपलक्षयध्वेऽथवा न हि ॥३७।। परिशिष्टम् आचार्योऽप्युपयोगेन ज्ञात्वोचे त्वां नरेश्वर । सम्यगुपलक्षयेऽहं स्वां प्राग्भवकथां शृणु ॥३८।।
महागिर्याचार्यमित्रैर्विहरन्तो वयं पुरा । सह गच्छेन कौशाम्ब्यामागच्छाम नरेश्वर ॥३९।
सङ्कीर्णत्वेन वसतेः पृथक् पृथगवस्थितौ । तत्रावां परिवारो हि महानभवदावयोः ॥४०॥ २८५
तत्राभूदतिदुर्भिक्षं तथाप्यस्मासु भक्तिमान् । लोको भक्तादिकं दातुमुपाक्रस्त विशेषतः ॥४१।। भिक्षार्थं साधवो ऽन्येचुरेकस्य श्रेष्ठिनो गृहे । विविशुः पृष्ठतस्तेषां रङ्क एको विवेश च ॥४२।। तत्रेच्छाकारमर्यादां विविधां मोदकादिभिः । साधवो लेभिरे भिक्षां तस्य पश्यत एव ते ॥४३।। साधूनामात्तभिक्षाणां वसतिं प्रति गच्छताम् । अनुगः सोऽब्रवीद्रको दीयतां मम भोजनम् ॥४४॥ ते साधवोऽभिदधिरे जानन्ति गुरवः खलु । वयं गुरुपराधीना न किंचिद्दातुमीश्महे ॥४५।। तत: स रङ्कः साधूनामन्वेव वसतिं ययौ । दीनात्मा तत्र दृष्ट्वास्मानयाचत च भोजनम् ॥४६॥ साधवः कथयन्ति स्म भगवन्नमुना पथि । याचिता वयमप्युच्र्भोजनं दीनमूर्तिना ॥४७।। विदितं चैवमस्माभिरुपयोगपरायणैः । भावी प्रवचनाधारो यद्रकोऽयं भवान्तरे ॥४८।। ततः स द्रमकोऽस्माभिः प्रियपूर्वमभाष्यत । यद्यादत्से परिव्रज्यां लभसे भोजनं तदा ॥४९।। रङ्कोऽचिन्तयदग्रेऽपि सर्वकष्टमयो ह्यहम् । तद्वरं व्रतजं कष्टमिष्टभोजनलाभकृत् ॥५०॥ प्रतिपन्नं परिव्रज्यां ततो रकं तदैव तम् । प्रव्राज्याबुभुजामेष्टं मोदकादि यथारुचि ॥५१॥ स स्वादुं स्वादुमाहारं तथा ह्याकण्ठमात्तवान् । पन्थाः श्वासानिलस्यापि यथा दुःसञ्चरोऽभवत् ॥५२॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379