Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 359
________________ सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम् चतुर्देवीसमावृतः ॥२ मरुदेव्यादीनां २८६ कथाः राजापृच्छदसौ यद्यासनाचा पुरे तव । श्रेष्ठिऋषभस्य तद्दिनस्यैव यामिन्यां तेनाहारेण भूयसा । रुद्धश्वासो विपन्नः स श्वासजीवा हि देहिनः ॥५३॥ स्थितो मध्यस्थभावेन रङ्कसाधुर्विपद्य सः । कुणालस्यावन्तिपतेः सूनुस्त्वमुदपद्यथाः ॥५४॥" इति हेमचन्द्राचार्यविरचिते परिशिष्टपर्वणि एकादशे सर्गे। पृ० १३१ पं० १५ / भवदेव ... "पुनर्विज्ञपयामास जिनेन्द्रं मगधाधिपः । भगवन् ! केवलज्ञानं कस्मिन्व्युच्छेदमेष्यति ॥२६२॥ नाथोऽप्यकथयत्पश्य विद्युन्माली सुरो ह्यसौ । सामानिको ब्रह्मेन्द्रस्य चतुर्देवीसमावृतः ॥२६३।। अह्रोऽमुष्मात्सप्तमेऽह्नि च्युत्वा भावी पुरे तव । श्रेष्ठिऋषभदत्तस्य जम्बूः पुत्रोऽन्त्यकेवली ॥२६४|| राजापृच्छदसौ यद्यासन्नप्रच्यवनोऽमरः । तेजोऽस्य तत्किमक्षीणमथाचख्यौ जगद्गुरुः ॥२६५।। राजन्नेकावताराणामन्तकालेऽपि नाकिनाम् । तेजःक्षयादिच्यवनलिङ्गान्याविर्भवन्ति न ॥२६६।। तदा मुदानादृताख्यो जम्बूद्वीपपति: सुरः । शब्देन महताऽवादीदहो मे कुलमुत्तमम् ॥२६७।। तदा च श्रेणिकोऽपृच्छद् भगवन्तं कृताञ्जलिः । देवोऽयमेवं स्वकुलप्रशंसां कुरुते कुतः ॥२६८।। सर्वज्ञः कथयामास राजन्नत्रैव पत्तने । इभ्यो गुप्तमतिर्नाम बभूव भुवि विश्रुतः ॥२६९॥ तस्य द्वौ तनुजन्मानावभूतां क्रमयोगतः । ज्यायानृषभदत्ताख्यो जिनदासाभिधो लघुः ॥२७०।। ज्यायानतिसदाचारो द्यूतादिव्यसनी लघुः । तौ द्वावाद्यन्तयुगयोः प्रत्यक्षे इव वर्मणी ॥२७१।। ततश्चर्षभदत्तेन जिनदासः सुमेधसा । त्यक्तो दुराचार इति सर्वस्वजनसाक्षिकम् ॥२७२।। अहमभ्रातृकोऽस्मीति ज्येष्ठः स श्रेष्ठिसूर्वदन् । कनिष्ठस्य शुन इव प्रवेष्टुं न गृहेऽप्यदात् ।।२७३।। जिनदासोऽन्यदा दीव्यन्नन्येन द्यूतकारिणा । संजातद्यूतकलहे सद्योऽस्रेण न्यहन्यत ।।२७४।। फलं द्यूतविषतरोरायुधाघातवेदनम् । जिनदासोऽन्वभूदङ्क इव भूमितले लुठन् ॥२७५।। २८६ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379