________________
सवृत्तिके | पृ० १४४ पं० १०॥ "असन्नी खलु पढमं दुच्चं च सरीसवा तइय पक्खी । सीहा जंति चउत्थिं उरगा पुण पंचमि पुढविं ॥२८४।। धर्मबिन्दी
छटिं च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं । एसो परमुववाओ बोधव्वो नरयपुढवीसु ॥२८५॥ चतुर्थ
असंज्ञिनः संमूर्छिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तच्चावधारणमेवम् - असंज्ञिन: प्रथमामेव यावद् परिशिष्टम्
गच्छन्ति, न परत इति, न तु त एव प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीषट्कगामिनां तत्र गमनभावात् । एवमुत्तरत्राप्यवधारणं भावनीयम् । दुच्चं च सरीसव त्ति द्वितीयामेव शर्कराप्रभाख्याम् पृथिवीं यावद् गच्छन्ति सरीसृपा गोधा-नकुलादयो गर्भव्युत्क्रान्ता न परतः, एवं तृतीयामेव
गर्भजा: पक्षिणो गृध्रादय:, चतुर्थीमेव गर्भजा: सिंहाः, पञ्चमीमेव गर्भजा उरगाः, षष्ठीमेव स्त्रिय: स्त्रीरत्नाद्या महारम्भादियुक्ताः । सप्तमी यावद् । विशिष्टानि २७६ गर्भजा मत्स्य-मनुजा अतिक्रूराध्यवसायिनो महापापकारिणः । एष नरकपृथिवीषु धर्मादिषु भेदेन जीवविशेषाणां परम उत्कृष्ट उपपातो बोद्धव्यः
टिप्पणानि । जघन्यतो मध्यमतस्त्वन्यथा, तत्र जघन्यत: सर्वेषामपि रत्नप्रभायाः पृथिव्याः प्रथमे प्रस्तटे, मध्यमतो जघन्यात् परत: स्व-स्वोत्कृष्टोपपातादर्वाक् ॥२८४-२८५॥” इति मलयगिरिसूरिविरचितवृत्तिसहितायां बृहत्संग्रहण्याम् ॥
पृ० १४५ पं० ९॥ “आणोहेणाणंता मुक्का गेवेज्जगेसु उ सरीरा । ण य तत्थासंपुण्णाए साहुकिरियाए उववाओ ।।१४।४८।।
आणो० गाहा । आज्ञेति आगमोऽयं यदुत ओघेन सामान्येन भव्याभव्यजीवापेक्षयेत्यर्थः, अथवा आज्ञाया आप्तोपदेशस्य ओघ: सामान्यम् आज्ञौघ: सम्यग्दर्शनविकलमाज्ञामात्रमित्यर्थः, तेन सतापीति गम्यम् अनन्तानि अनन्तसंख्यानि मुक्तानि त्यक्तानि जीवैरतीतकाले ग्रैवेयकेषु तु ग्रैवेयकाभिधानविमानविशेषेष्वपि, किं पुनरन्यत्र ?, शरीराणि देहा: यदाह- एगमेगस्स णं भंते मणूसस्स गेवेज्जगदेवत्ते केवइया दव्विंदिया अईया ? गोयमा । अणंत [
] त्ति । न च न पुनः तत्र गैवेयकेषु असंपूर्णया खण्डया साधुक्रियया संयतानुष्ठानेन उपपात उपपाद इति गाथार्थः ।" इति अभयदेवसूरिविरचितवृत्तियुते पञ्चाशके ॥
२७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org