________________
सवृत्तिके धर्मबिन्दी
चतुर्थ
परिशिष्टम्
२७५
Jain Education International
पृ० १३२ पं० १५-१६ ।। " गुरुकुलवासो गुरुतंतयाय उचियविणयस्स करणं च । वसहीपमज्जणाइसु जत्तो तह कालवेक्खाए ॥ ३३॥ गुरुकुलवासो मूलगुणो यतेः, “सुयं मे आउसंतेण” [आचाराङ्गे १/१/१] इति वचनप्रामाण्यात् । कथमयमिष्यते ? इत्याह- गुरुतन्त्रतया गुरुपारतन्त्र्येण आत्मप्रदान- सत्यपालनेन । तथा उचितविनयस्य ज्ञानविनयादेः करणं च सेवनं च भगवदाज्ञेति कृत्वा । तथा वसतिप्रमार्जनादिषु क्रियाभेदेषु यत्नः, आदिशब्दाद् उपधिप्रत्युपेक्षणादिग्रहः, तथा कालापेक्षया न तु यदृच्छाप्रवृत्त्या इति गाथार्थः ||३३|| "
अहिणा बलम्म सव्वत्थ पवत्तणं पसंतीए । णियलाभचिंतणं सइ अणुग्गहो मे त्ति गुरुवयणे ||३४||
अनिगूहना अप्रच्छादना बले शारीरे औचित्यप्रयोगेण, एतद्धि यदन्यथा गतं गतमेव निष्फलमित्येतदालोच्य । तथा सर्वत्र श्रमणयोगे उपधिप्रत्युपेक्षणादौ प्रवर्तनं प्रशान्त्या, क्षान्त्यादिमन्थरमित्यर्थः । निजलाभचिन्तनं सदा निर्जराफलमङ्गीकृत्य । गुरुवचने गुर्वाज्ञायामिति सम्बन्धः । कथम् ? इत्याहअनुग्रहो ममेति यदयमित्थमाह, इति एवं दुर्लभाः खलु चि (श्वि?) त्ररोगाभिभूतानां सदुपदेशदातारः सुवैद्या: इत्याद्युदाहरणैः । इति गाथार्थः ||३४|| " इति स्वोपज्ञवृत्तिसहिते योगशतके ॥
पृ० १३३ पं० ११ ॥ “ वर्जयेच्च संसर्गं सम्बन्धमित्यर्थः, कैरित्याह-पार्श्वस्थादिभिः पापमित्रैः अकल्याणमित्रैः सह कुर्याच्च संसर्गमप्रमत्तः सन् शुद्धचारित्रैर्धीरः साधुभिः सहेति गाथार्थः ॥ ७३०||" इति पञ्चवस्तुकस्य स्वोपज्ञवृत्तौ ॥
पृ० १३६ पं० २ ॥ "जे इमे इत्यादि, ये इमे प्रत्यक्षाः अज्जत्ताए त्ति आर्यतया पापकर्मबहिर्भूततया, अद्यतया वा अधुनातनतया वा, वर्तमानकालतयेत्यर्थः, तेयलेस्सं ति तेजोलेश्यां सुखासिकाम्, तेजोलेश्या हि प्रशस्तलेश्योपलक्षणम्, सा च सुखासिकाहेतुरिति कारणे कार्योपचारात् 'तेजोलेश्या' शब्देन सुखासिका विवक्षितेति, वीइवयंति व्यतिव्रजन्ति व्यतिक्रामन्ति, असुरिदवज्जियाणं ति चमर - बलिवर्जितानाम्, तेण परं ति ततः संवत्सरात् परतः सुक्के त्ति शुक्लो नाम अभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण इत्यन्ये, सुक्काभिजाइ ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्- 'आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात् संवत्सरादूर्ध्वम् ॥' [ षोडशक० १२।१३] एतच्च श्रमणविशेषमेवाश्रित्योच्यते, न पुनः सर्व एवैवंविधो भवतीति" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां टीकायां चतुर्दशे शते नवमे उद्देशके ॥
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२७५
www.jainelibrary.org