________________
सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम्
२७४
असदाभिनिवेशस्तेन रहितं विप्रमुक्तम् अलं अत्यर्थम् ॥७॥ चिन्तामयश्रुतज्ञानस्य लक्षणमाह-यत्त्वित्यादि । यत्तु यत्पुनर्महावाक्यार्थजम् आक्षिप्तेतरसर्चधात्मकवस्तुप्रतिपादकानेकान्तवादविषयार्थजन्यम् अतिसूक्ष्मा अतिशयसूक्ष्मबुद्धिगम्या: शोभना अविसंवादिन्यो या युक्तयः सर्वप्रमाणनयगर्भास्तच्चिन्तया तदालोचनयोपेतं युक्तम् उदक इव सलिल इव तैलबिन्दुः तैललवो विसर्पणशीलं विसर्पि विस्तारयुक्तं चिन्तया निर्वृत्तं चिन्तामयं तज्ज्ञानं स्याद् भवेत् ॥८॥ भावनाज्ञानलक्षणमाह-एदम्पर्येत्यादि । ऐदम्पर्य तात्पर्य सर्वज्ञेयक्रियाविषये सर्वज्ञाज्ञैव प्रधान कारणमित्येवंरूपं तद्गतं तद्विषयं यज्ज्ञानं विध्यादौ विधिद्रव्यदातृपात्रादौ, यत्नवत्परमादरयुक्तं तथैवोच्चैः ऐदम्पर्य्यवत्त्वापेक्षया यत्नवत्त्वस्य समुच्चयार्थं तथैवेत्यस्य ग्रहणम् । एतत्तु एतत्पुनर्भावनया निर्वृत्तं भावनामयं ज्ञानम् अशुद्धस्य सद्रत्नस्य जात्यरत्नस्य स्वभावत एव क्षारमृत्पुटपाकाद्यभावेऽपि भास्वररूपस्य विशिष्टानि या दीप्तिस्तया सममशुद्धसद्रत्नदीप्तिसमम् । यथाहि जात्यरत्नस्य स्वभावत एवान्यरत्नेभ्योऽधिका दीप्तिर्भवत्येवमिदमपि भावनाज्ञानमशुद्धसद्रत्नकल्पस्य
टिप्पणानि भव्यजीवस्य कर्ममलमलिनस्यापि शेषज्ञानेभ्योऽधिकप्रकाशकारि भवति । अनेन हि ज्ञानं ज्ञातं क्रियाप्येतत्पूर्विकैव मोक्षायाऽक्षेपेण सम्पद्यत इति ॥९॥" इति यशोभद्रसूरिविरचितटीकासहिते आचार्यश्रीहरिभद्रसूरिविरचिते षोडशके ॥
पृ० १२९ पं०८ ॥"काले सुइभूएणं विदिट्ठपुप्फाइएहिं विहिणा उ। सारथुइथोत्तगरुई जिणपूजा होइ कायव्वा ॥४॥३॥
काले समये वक्ष्यमाणस्वरूपे कर्तव्या इति सम्बन्धः तथा शुचिभूतेन भूतशब्दस्य प्रकृतिमात्रार्थत्वात् शुचिना, अथवा भावप्रत्ययस्य लुप्तस्य दर्शनाद् भूतशब्दस्य प्राप्त्यर्थत्वाच्च शुचितां प्राप्तेन, अथवा शुचिश्चासौ भूतश्च संवृत्तः प्राणी वा शुचिभूतः, तेन विशुद्धिमतेत्यर्थः, तथा विशिष्टपुष्पादिभिः प्रधानसुमन:प्रभृतिभिः करणभूतैः, आदिशब्दार्थं स्वयमेव वक्ष्यति, तथा विधिना वक्ष्यमाणविधानेनेति तुशब्दः समुच्चयार्थः, तथा सारस्तुतिस्तोत्रगुर्वी प्रधानस्तुतिस्तोत्रमहती, स्तुतिश्चैकश्लोकप्रमाणा, स्तोत्रं तु बहुश्लोकमानम्, जिनपूजा अर्हदर्चनं भवति वर्तते कर्तव्या विधेया इति द्वारगाथासमासार्थ: ।" इति अभयदेवसूरिविरचितवृत्तियुते हरिभद्रसूरिखणीते पञ्चाशके ॥
पृ० १३१ पं०७॥"अत्वरापूर्वकं सर्वं गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥५१॥ __ अत्वरापूर्वकमनाकुलमित्यर्थः सर्व सामान्येन, किं तदित्याह-गमनं देवकुलादौ, कृत्यमेव वा वन्दनादि, प्रणिधानसमायुक्तं मन:प्रणिधानपुर:सरम्, | २७४ अपायपरिहारत: दृष्ट्याद्यपायपरिहारेण ॥५१॥" इति स्वोपज्ञवृत्तिसहिते योगदृष्टिसमुच्चये ॥
Jain Education Intensional
For Private & Personal use only
www.jainelibrary.org