Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ षष्ठं परिशिष्टम्
मयूर-सारस-कौञ्च-हंसाद्यैः स्वस्वराधिका । आकर्ण्यते दत्तकर्णैः स्वामिनो गी: सविस्मयम् ।।२२६।।
तातस्य तोयदस्येव ध्वनावा योजनादिह । श्रुते मनो बलाकेव बलवद्देवि धावति ॥२२७।। त्रैलोक्यभर्तुर्गम्भीरां वाणी संसारतारणीम् । निवातदीपनिस्पन्दा मरुदेवा मुदाऽश्रृणोत् ॥२२८।। श्रृण्वन्त्यास्तां गिरं देव्या मरुदेव्या व्यलीयत । आनन्दाश्रुपय:पूरैः पङ्कवत् पटलं दृशोः ॥२२९।। साऽपश्यत्तीर्थकृल्लक्ष्मी तस्याऽतिशयशालिनीम् । तस्यास्तद्दर्शनानन्दस्थैर्यात् कर्म व्यशीर्यत ॥२३०।।
भगवद्दर्शनानन्दयोगस्थैर्यमुपेयुषी । केवलज्ञानमम्लानमाससाद तदैव सा ॥२३१।।
करिस्कन्धाधिरूदैव प्राप्तायु:कर्मसङ्क्षया । अन्तकृत्केवलित्वेन निर्वाणं मरुदेव्यगात् ।।२३२॥ एतस्यामवसर्पिण्यां सिद्धोऽसौ प्रथमस्तत: । क्षीराब्धौ तद्वपुः क्षिप्त्वा चक्रे मोक्षोत्सव: सुरैः ॥२३३॥...(पृ० ६५-६६)
पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ॥११॥ मरुदेवा हि स्वामिनी आसंसारं त्रसत्वमात्रमपि नानुभूतवती, किं पुनर्मानुषत्वम्, तथापि योगबलसमिद्धेन शुक्लध्यानामिना चिरसञ्चितानि कर्मेन्धनानि भस्मसात् कृतवती । यदाह - जह एगा मरुदेवा अच्चंतं थावरा सिद्धा। [आव०नि०१०३६]" (पृ० ९१-९२) इति योगशास्त्रस्वोपज्ञवृत्ती
२८१
मरुदेव्यादीनां कथा:
पृ० ८५ पं०७/ स्थूलभद्रादीनाम् ....।
"ते धन्ना ते साहू, तेसिं नमो जे अकज्जपडिविरया । धीरा वयमसिहार, चरंति जह थूलभद्दमुणी ॥५९॥" [उपदेशमाला] [व०] कप्पगवंसे गंदवंसेण समं अणुयत्तमाणे णवमे गंदे कप्पगवंसप्पभूओ सगडालो णाम मंती सव्वत्थकयप्पमाणो, थूलभद्दो से पुत्तो, सिरिओ य । [पृ० ३२३-३२४].... अण्णया सिरियस्स वीवाहो, रण्णो आउगो सज्जिज्जइ । वररुइणा तस्स दासी ओलग्गिया, तीए कहियं- रण्णो भत्तं सज्जिज्जइ, आउगो य, ताहे तेण चिंतियं एयं छिदं । चेडरूवाणि मोदगे दाऊण इमं पाढेइ -
राया णंदो णवि जाणइ जं सगडालो करिस्सइ । राया णंदो मारेविणु सिरियओ रज्जे ठावहित्ति ।।
२८१
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379