Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबन्दी
चतुर्थ
परिशिष्टम्
२६९
Jain Education International
दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते । ईर्ष्यकः स तु विज्ञेयः षण्ढकं शृणु पञ्चमम् ॥४१॥ यो भार्यायामृतौ मोहादननेव प्रवर्तते । ततः स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञितः ॥४२॥ ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि । तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ॥४३॥ आसेक्यश्च सुगन्धी च कुम्भश्चे । सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ढसंज्ञितः ॥४४॥” इति सुश्रुतसंहितायां तृतीये शारीरस्थाने द्वितीयेऽध्याये ||
" चतुर्दशविधः शास्त्रे षण्ढो दृष्टो मनीषिभिः । चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधि: क्रमात् ॥ निसर्गपण्डो वधश्च पक्षपण्डस्तथैव च । अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ।। ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखेभगः । आक्षिप्तो मोघबीजश्च शालीनोऽन्यापतिस्तथा ॥
स तु पण्डकश्चतुर्दशप्रकार उक्तः शास्त्रे मेधाविभिर्दत्तात्रेयप्रभृतिभिः । इह चिकित्सार्हाश्चेत (श्च ? रे च) तेषामुक्तो विधि: क्रमात् तं शेषः । वैद्यके चायं चिकित्स्योऽयमचिकित्स्य इत्युक्तम् ।
उत्पत्तित एव पण्डो निसर्गपण्डः । वधः शयितमुष्कः । पक्षपण्डः पक्षे समागमसमर्थः । गुरुशापादुपहतपुंस्त्वः । तथा रोगाद् देवतापराधाच्च । ईर्ष्यापण्डः, परपुरुषेण संबध्यमानां दृष्ट्वा पुंस्त्वमुपजायते । सेव्यः, पुरुषेण सेव्यमानस्योपजायते । वातरेताः, वातेनोह्यते योनौ न सिच्यते शुक्लम् । मुखेभगः, मुखग्रहणं प्रदर्शनार्थम् । भगादन्यत्र भगकार्यं भवति । पुंस्त्वं न भग इति केचित् । केचिदन्यत्र क्षतयोन्या अपीति दुर्गम् । अन्ये स्वमुखे क्रियमाणे पुंस्त्वमुपजायते स मुखेभग इति । आक्षिप्तबीज:, रतिर्भवति संयोगाद्, रतिकाले शुक्लं नास्ति । मोघबीज:, भवति तु शुक्लं न भवत्यपत्यम् । चतुर्ष्वप्येतेष्वीर्ष्यापण्डादिषु क्षतयोनित्वं यथा संभवति तथा व्याख्येयं क्षतयोन्या अपीति वचनात् । शालीनोऽधृष्टः, स्त्रियं दृष्ट्वा लज्जया न प्रहृष्यति । अन्यपतिः, अन्यस्यां भवति पुंस्त्वं, न स्वभार्यायाम् ।" इति भाष्यसहितायां नारदसंहितायाम् ।
T
पृ० १०८ पं० १३ ।। " वेदनेति वेदनोपशमनाय वैयावृत्त्यार्थं ईर्यार्थं वा संयमार्थं वा तथा प्राणप्रत्ययमिति प्राणनिमित्तं षष्ठं पुनः धर्म्मचिन्तया भुञ्जीतेति गाथार्थः ॥ ३६५॥” इति पञ्चवस्तुकस्य स्वोपज्ञवृत्तौ ॥
पृ० १११ पं० ९ ॥ “ धारयितुं परिग्रहे, परिहर्तुम् आसेवितुमिति, अथवा 'धारणया उवभोगो परिहरणा होइ परिभोगो' [ ]त्ति ।" इत्येवं स्थानाङ्गवृत्ति[ सू. ४४६ ] प्रभृतिष्वपि पाठ उपलभ्यते, क्षेमकीर्तिसूरिभिस्तु बृहत्कल्पभाष्ये 'धारणया उ अभोगो....' । इति पाठं स्वीकृत्य
For Private & Personal Use Only
विशिष्टानि टिप्पणानि
२६९
www.jainelibrary.org
Loading... Page Navigation 1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379