SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबन्दी चतुर्थ परिशिष्टम् २६९ Jain Education International दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते । ईर्ष्यकः स तु विज्ञेयः षण्ढकं शृणु पञ्चमम् ॥४१॥ यो भार्यायामृतौ मोहादननेव प्रवर्तते । ततः स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञितः ॥४२॥ ऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि । तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता ॥४३॥ आसेक्यश्च सुगन्धी च कुम्भश्चे । सरेतसस्त्वमी ज्ञेया अशुक्रः षण्ढसंज्ञितः ॥४४॥” इति सुश्रुतसंहितायां तृतीये शारीरस्थाने द्वितीयेऽध्याये || " चतुर्दशविधः शास्त्रे षण्ढो दृष्टो मनीषिभिः । चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधि: क्रमात् ॥ निसर्गपण्डो वधश्च पक्षपण्डस्तथैव च । अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ।। ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखेभगः । आक्षिप्तो मोघबीजश्च शालीनोऽन्यापतिस्तथा ॥ स तु पण्डकश्चतुर्दशप्रकार उक्तः शास्त्रे मेधाविभिर्दत्तात्रेयप्रभृतिभिः । इह चिकित्सार्हाश्चेत (श्च ? रे च) तेषामुक्तो विधि: क्रमात् तं शेषः । वैद्यके चायं चिकित्स्योऽयमचिकित्स्य इत्युक्तम् । उत्पत्तित एव पण्डो निसर्गपण्डः । वधः शयितमुष्कः । पक्षपण्डः पक्षे समागमसमर्थः । गुरुशापादुपहतपुंस्त्वः । तथा रोगाद् देवतापराधाच्च । ईर्ष्यापण्डः, परपुरुषेण संबध्यमानां दृष्ट्वा पुंस्त्वमुपजायते । सेव्यः, पुरुषेण सेव्यमानस्योपजायते । वातरेताः, वातेनोह्यते योनौ न सिच्यते शुक्लम् । मुखेभगः, मुखग्रहणं प्रदर्शनार्थम् । भगादन्यत्र भगकार्यं भवति । पुंस्त्वं न भग इति केचित् । केचिदन्यत्र क्षतयोन्या अपीति दुर्गम् । अन्ये स्वमुखे क्रियमाणे पुंस्त्वमुपजायते स मुखेभग इति । आक्षिप्तबीज:, रतिर्भवति संयोगाद्, रतिकाले शुक्लं नास्ति । मोघबीज:, भवति तु शुक्लं न भवत्यपत्यम् । चतुर्ष्वप्येतेष्वीर्ष्यापण्डादिषु क्षतयोनित्वं यथा संभवति तथा व्याख्येयं क्षतयोन्या अपीति वचनात् । शालीनोऽधृष्टः, स्त्रियं दृष्ट्वा लज्जया न प्रहृष्यति । अन्यपतिः, अन्यस्यां भवति पुंस्त्वं, न स्वभार्यायाम् ।" इति भाष्यसहितायां नारदसंहितायाम् । T पृ० १०८ पं० १३ ।। " वेदनेति वेदनोपशमनाय वैयावृत्त्यार्थं ईर्यार्थं वा संयमार्थं वा तथा प्राणप्रत्ययमिति प्राणनिमित्तं षष्ठं पुनः धर्म्मचिन्तया भुञ्जीतेति गाथार्थः ॥ ३६५॥” इति पञ्चवस्तुकस्य स्वोपज्ञवृत्तौ ॥ पृ० १११ पं० ९ ॥ “ धारयितुं परिग्रहे, परिहर्तुम् आसेवितुमिति, अथवा 'धारणया उवभोगो परिहरणा होइ परिभोगो' [ ]त्ति ।" इत्येवं स्थानाङ्गवृत्ति[ सू. ४४६ ] प्रभृतिष्वपि पाठ उपलभ्यते, क्षेमकीर्तिसूरिभिस्तु बृहत्कल्पभाष्ये 'धारणया उ अभोगो....' । इति पाठं स्वीकृत्य For Private & Personal Use Only विशिष्टानि टिप्पणानि २६९ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy