SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ विशिष्टानि टिप्पणानि सवृत्तिके | व्याख्यानं विहितम्, तथाहि - "अथ धारयितुं वा परिहर्तुं वा' इति पदद्वयव्याख्यानमाह- धारणया उ अभोगो परिहरणा तस्स होइ परिभोगो धर्मबिन्दौ । ... ॥२३६७।। इह द्विधा परिहारः, तद्यथा- धारणा परिहरणा च । तत्र धारणा अभोग: अव्यापारणम्, संयमोपबृंहणार्थं स्वसत्तायां स्थापनमित्यर्थः, चतुर्थ परिहरणा नाम तस्य घटीमात्रकादेरुपकरणस्य परिभोग: व्यापारणम् । ..... धारणया उ अभोगो परिहरणा तस्स होइ परिभोगो... ॥२३७२।। परिशिष्टम् धारणता नाम अभोगः अव्यापारणम्, परिहरणा तु तस्य चिलिमिलिकाख्यस्योपकरणस्य परिभोगो व्यापारणमुच्यते ।" इति क्षेमकीर्तिसूरिविरचितवृत्तिसहिते बृहत्कल्पभाष्ये पृ० ६७१-६७३ ॥ १११२ पं०१६-१७ ॥ "संवेगो निव्वेओ विसयविवेगो सुसीलसंसग्गो । आराहणा तवो नाण दंसण चरित्त विणओ य ॥३४८॥ २७० खंती अ मद्दव विमुत्तया अदीणया तितिक्खा य । आवस्सगपरिसुद्धी य भिक्खुलिंगाई एयाइं ॥३४९॥ संवेगो मोक्षसुखाभिलाषः, निर्वेदः संसारविषयः, विषयविवेको विषयपरित्यागः, सुशीलसंसर्ग: शीलवद्भिः संसर्गः, तथा आराधना चरमकाले निर्यापणरूपा, तपो यथाशक्ति अनशनाद्यासेवनम्, ज्ञानं यथावस्थितपदार्थविषयमित्यादि, दर्शनं नैसर्गिकादि, चारित्रं सामायिकादि, विनयश्च ज्ञानादिविषय इति गाथार्थः ॥ तथा क्षान्तिश्च आक्रोशादिश्रवणेऽपि क्रोधत्यागश्च मार्दवार्जवविमुक्ततेति जात्यादिभावेऽपि मानत्यागान्मार्दवम्, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवम्, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथा अशनाद्यलाभेऽपि अदीनता, क्षुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा आवश्यकपरिशुद्धिश्च अवश्यंकरणीययोगनिरतिचारता च भवन्ति भिक्षो: भावसाधोः लिङ्गानि अनन्तरोदितानि संवेगादीनीति गाथार्थः ।" इति दशवैकालिकनियुक्ते: हरिभद्रसूरिविरचितायां वृत्तौ ॥ पृ० ११४ पं०६ ॥"किं कयं किं वा सेसं किं करणिज्जं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा ॥२६३।। सुगमा, नवरं पूर्वरात्रकाले रात्रिप्रहरद्वयस्याद्यस्यान्त: उपरिष्टादपररात्रकालः, तस्मिन् जाग्रत: चिन्तयतः, एवमुक्ता छद्यस्थविषया भावप्रत्युपेक्षणा" इति द्रोणाचार्यविरचितवृत्तिसहितायाम् ओघनिर्युक्तौ ॥ पृ०११४ पं० १४॥"किमेवं वचनमाहात्म्यं ख्याप्यत इत्याह - ___ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति ।। हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः ॥२॥१४॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy