________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२६८
समुत्पद्यते स ईर्ष्यालु: ५। तथा चटकवदुत्कटवेदतयाऽभीक्ष्णं प्रतिसेवनाप्रसक्तः शकुनिः ६ । तथा मैथुनमासेव्य बीजनिसर्गे सति यः श्वान इव वेदोत्कटतया जिह्वालेहनादिनिन्द्यकर्मणा सुखमात्मनो मन्यते स तत्कर्मसेवी ७ । तथा यस्य पक्षे शुक्लपक्षेऽतीव मोहोद्भवो भवति अपक्षे च कृष्णपक्षे स्वल्प: स पाक्षिकापाक्षिक: ८ । तथा य: शुभगन्धं मन्वानः स्वकीयं लिङ्गं जिघ्रति स सौगन्धिक: ९ । तथा यो वीर्यपातेऽपि कामिनीमालिङ्ग्य तदङ्गेषु कक्षोपस्थादिष्वनुप्रविश्यैव तिष्ठति स आसक्त: १० । पण्डकादीनां च परिज्ञानं तेषां तन्मित्रादेर्वा कथनादेरिति । ननु पुरुषमध्येऽपि नपुंसका उक्ता इहापि चेति तत्क एतेषां परस्परं प्रतिविशेष: ?, सत्यम्, किन्तु तत्र पुरुषाकृतीनां ग्रहणम्, इह तु नपुंसकाकृतीनामिति । उक्तं च निशीथचूर्णी___ 'इयाणिं नपुंसया दस, ते पुरिसेसु चेव वुत्ता नपुंसदारे, जइ जे पुरिसेसु वुत्ता ते चेव इहं पि किंकओ भेदो ? भन्नइ, तहिं पुरिसाकिई इह गहणं सेसयाण भवे [गा. ३७३६] त्ति । एवं स्त्रीष्वपि वाच्यम् । ननु नपुंसका: षोडशविधाः श्रुते श्रूयन्ते तत्कथमत्र दशैवोक्ताः ?, सत्यं, दशैव तद्भेदाः |विशिष्टानि प्रव्रज्याया अयोग्या: ततस्त एवोक्ताः, शेषाः पुनः षट् दीक्षायोग्या एव । तथा चोक्तम् - वद्धिए चिप्पिए चेव, मंतोसहिउवहए । इसिसत्ते देवसत्ते परिणाम य, पव्ववोज्ज नपुंसए ॥१॥ अस्यार्थ:-आयत्यां राजान्त:पुरमहल्लकपदप्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणी गालितौ भवतः स वर्द्धितक: । यस्य तु जातमात्रस्याङ्गुष्ठागुलीभिर्मर्दयित्वा वृषणौ द्राव्यते स चिप्पितः । एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते । तथा कस्यचिन्मन्त्रसामर्थ्यादन्यस्य तु तथाविधौषधीप्रभावात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेद: समुदेति । तथा कस्यचिन्मदीयतप:प्रभावान्नपुंसको भवत्वयमिति ऋषिशापात् तथा कस्यचिद्देवशापात्तदुदयो जायते । इत्येतान् षट् नपुंसकान् निशीथोक्तविशेषलक्षणसम्भवे सति प्रव्राजयेदिति ॥१०९॥" इति आ०श्री सिद्धसेनसूरिविरचितटीकायुते आ.श्री नेमिचन्द्रसूरिविरचिते प्रवचनसारोद्धारे द्वितीये खण्डे पृ०३४-४४॥
पृ० १०७ पं० २ ॥ “ईर्ष्याभिभूतावपि मन्दहर्षावीरितेरेव वदन्ति हेतुम् ॥२०॥ वाय्वग्निदोषाद् वृषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः।" इति चरकसंहितायां चतुर्थे शारीरस्थाने द्वितीयेऽध्याये ॥ “परव्यवायं दृष्ट्वा प्राप्तध्वजोच्छ्रायो व्यवायासक्तो भवति स ईर्ष्यारतिः" इति चक्रपाणिदत्तविरचितायां चरकसंहितावृत्तौ ॥
"घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते। विसर्पत्यार्तवं नास्तिथा पुंसां समागमे ।।३६। बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ । यमावित्यभिधीयेते धर्मेतरपुर:सरौ ॥३७॥ पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत् । स शुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् ॥३८॥ यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः । स योनि-शेफसोर्गन्धमाघ्राय लभते बलम् ॥३९॥ स्वे गुदेऽब्रह्मचर्याद्य: स्त्रीषु पुंवत् प्रवर्तते । कुम्भीकः स तु विज्ञेय: ईर्ष्याकं शृणु चापरम् ॥४०॥
२६८
Jain Education International
For Private Personal use only
www.jainelibrary.org