Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 340
________________ सवृत्तिके धर्मबिन्दी चतुर्थ परिशिष्टम् २६७ Jain Education International य, पक्खियापक्खिए ८ इय ।। ७९३।। [निशीथ भा. ३५६१ ] सोगंधिए य ९ आसत्ते १०, दस एते नपुंसगा । संकिलिट्ठित्ति साहूणं, पव्वावे अकप्पिया ||७९४ || 'पंडए' इत्यादिश्लोकद्वयम्, पण्डको वातिकः क्लीबः कुम्भी ईर्ष्यालुः शकुनिस्तत्कर्मसेवी पाक्षिकापाक्षिकः सौगन्धिक आसक्तश्च दश एते नपुंसकाः सङ्क्लिष्टचित्ता इति साधूनां प्रव्राजयितुमकल्प्या व्रतायोग्या इत्यर्थः । सङ्क्लिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरमहादाहसमानकामाध्यवसायसम्पन्नत्वेन स्त्री-पुरुषसेवामाश्रित्य विज्ञेयम्, उभयसेविनो ह्येते इति ॥७९३-७९४॥ तत्र पण्डकस्य लक्षणं - महिलासहावो सरसन्नभेओ, मिंढं महंतं मउया य वाणी । ससद्दयं मुत्तमफेणयं च, एयाणि छप्पंडगलक्खणाणि ॥१॥ [निशीथभा. ३५६७ ] । इति वृत्तादवसेयम्, अस्य व्याख्या-पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणम्, तथाहि गतिस्तस्य पदाकुला मन्दा च भवति, सशङ्कं च पृष्ठतोऽवलोकमानो गच्छति, शरीरं च शीतलं मृदु च भवति, योषिदिवानवरतं हत्थोल्लकान् प्रयच्छन् उदरोपरि तिर्यग्व्यवस्थापितवामकरतलस्योपरिष्टाद्दक्षिणकरकूर्परं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विक्षिपन् भाषते, अभीक्ष्णं च कटिहस्तकं ददाति, प्रावरणाभावे स्त्रीवद् बाहुभ्यां हृदयमाच्छादयति, भाषमाणश्च पुनः पुनः सविभ्रमं भ्रूयुग्ममुत्क्षिपति, केशबन्धनप्रावरणादिकं च स्त्रीवत्करोति, योषिदाभरणादिपरिधानं च बहु मन्यते, स्नानादिकं च प्रच्छन्ने समाचरति, पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति, स्त्रीसमाजे तु निःशङ्कः प्रमदाजनोचितं च रन्धन - कण्डन- पेषणादिकं कर्म विदधाति इत्यादिमहिलास्वभावत्वं पण्डकलक्षणम् १ । तथा स्वरवर्णभेदः, स्वरः शब्दो वर्णः शरीरसम्बन्धी उपलक्षणत्वाद्गन्ध-रस-स्पर्शाश्च स्त्री-पुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः २ - ३ । मेन्द्रं पुरुषचिनं महद्भवति ४ । मृद्वी च वाणी ललनाया इव जायते ५ । तथा स्त्रिया इव सशब्दं मूत्रं जायते फेनरहितं च तद्भवति ६ । एतानि षट् पण्डकलक्षणानि । तथा वातोऽस्यास्तीति वातिकः, यः स्वनिमित्ततोऽन्यथा वा मेहने स्तब्धे सति स्त्रीसेवायामकृतायां वेदं धारयितुं न शक्नोति २ । तथा क्लीबः असमर्थः, स चतुर्धा दृष्टि शब्दाऽऽश्लिष्ट निमन्त्रणाक्लीबभेदात् । तत्र यो विवस्त्राद्यवस्थं विपक्षं वीक्ष्य क्षुभ्यति स दृष्टिक्ली : । यस्तु युवतिशब्दं श्रुत्वा क्षुभ्यति स शब्दक्लीबः । यः पुनः पुरन्ध्रीभिरुपगूढो निमन्त्रितश्च व्रतं विधातुं न शक्नोति स यथाक्रममाश्लिष्टक्लीबो निमन्त्रितक्लीबश्च विज्ञेयः ३ । यस्य तु मोहोत्कटतया सागारिकं वृषणौ वा कुम्भवदुत्सूनौ भवतः स कुम्भी ४ । तथा यस्य प्रतिसेव्यमानां वनितां विलोक्य प्रकाममीर्ष्या For Private & Personal Use Only विशिष्टानि टिप्पणानि २६७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379