Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 339
________________ सवृत्तिके | धर्मबिन्दौ चतुर्थं -कभ-शरीरादिभिषितोहण-नखप्रक्षालन-सौकाहा, लोकेऽवर्णवादमयनात्मनः परिशिष्टम् २६६ विशिष्टानि टिप्पणानि कृत्या-ऽकृत्यादिविवेकविकलत्वाच्च १३ । तथा यो राजव्यवहारिकादीनां हिरण्यादिकं धारयति स ऋणार्त्तः, तस्य दीक्षादाने राजादिकृता ग्रहणा-ऽऽकर्षण-कदर्थनादयो दोषाः १४ । तथा जाति-कर्म-शरीरादिभिर्दूषितो जुङ्गितः । तत्र मातङ्ग-कोलिक-बरुड- सूचिक-छिम्पादयोऽस्पृश्या जातिजुङ्गिताः । स्पृश्या अपि स्त्री-मयूर-कुर्कुट-शुकादिपोषका वंशवरत्रारोहण-नखप्रक्षालन-सौकरिकत्व-वागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः । कर-चरण-कर्णादिवर्जिताः पगु-कुब्ज-वामनक-काणकप्रभृतयः शरीरजुङ्गिताः, तेऽपि न दीक्षार्हाः, लोकेऽवर्णवादसम्भवात् १५ । तथा अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धकः, सोऽपि न दीक्षार्हः कलहादिदोषसम्भवात् १६ । तथा रूप्यकादिमात्रया वृत्त्या धनिनां गृहे दिन-पाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो यः स भृतकः, सोऽपि न दीक्षोचितः । यस्यासौ वृत्तिं गृहणाति स दीक्ष्यमाणे तस्मिन् महतीमप्रीतिमादधाति १७ । तथा शैक्षस्य दीक्षितुमिष्टस्य निस्फेटिका अपहरणं शैक्षनिस्फेटिका, तद्योगाद् यो माता-पित्रादिभिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षनिस्फेटिका, सोऽपि न दीक्षोचितः । माता-पित्रादीनां कर्मबन्धसम्भवात् अदत्तादानादिदोषप्रसङ्गाच्च १८ । इत्येतेऽष्टादश पुरुषस्य पुरुषाकारवतो दीक्षानीं भेदा इति ॥७९१॥१०७॥ इदानीं 'वीसं इत्थीसु' त्ति अष्टोत्तरशततमं द्वारमाह - जे अट्ठारस भेया पुरिसस्स तहित्थियाए ते चेव । गुम्विणी १ सबालवच्छा २ दुन्नि इमे हुँति अन्ने वि ॥७९२॥ जे अट्ठारस भेया गाहा, येऽष्टादश भेदाः पुरुषेष्वदीक्षणार्हा उक्तास्तथा तेनैव प्रकारेण स्त्रियोऽपि त एव भेदा अष्टादश विज्ञेयाः । अयमर्थ:-यथा पुरुषाकारवतस्तथा स्त्रीजनाकारवतोऽपि व्रतायोग्या बालादयोऽष्टादश भेदास्तावन्त एव । अन्यावपि द्वाविमौ भवतः, यथा गुर्विणी सगर्भा सह बालेन स्तनपायिना वत्सेन वर्तते सा सबालवत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्या: । दोषा अप्यत्र पूर्ववद्वाच्या: ७९२।।१०८॥ इदानी दस नपुंसेसु इति नवोत्तरशततमं द्वारमाह - पंडए १ वाइए २ कीवे ३, कुंभी ४ ईसालुय त्ति य ५ । सउणी ६ तक्कम्मसेवी ७ Jan Education International For Private & Personal use only wwwwsainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379