________________
सवृत्तिके | धर्मबिन्दौ चतुर्थं
-कभ-शरीरादिभिषितोहण-नखप्रक्षालन-सौकाहा, लोकेऽवर्णवादमयनात्मनः
परिशिष्टम्
२६६
विशिष्टानि टिप्पणानि
कृत्या-ऽकृत्यादिविवेकविकलत्वाच्च १३ ।
तथा यो राजव्यवहारिकादीनां हिरण्यादिकं धारयति स ऋणार्त्तः, तस्य दीक्षादाने राजादिकृता ग्रहणा-ऽऽकर्षण-कदर्थनादयो दोषाः १४ ।
तथा जाति-कर्म-शरीरादिभिर्दूषितो जुङ्गितः । तत्र मातङ्ग-कोलिक-बरुड- सूचिक-छिम्पादयोऽस्पृश्या जातिजुङ्गिताः । स्पृश्या अपि स्त्री-मयूर-कुर्कुट-शुकादिपोषका वंशवरत्रारोहण-नखप्रक्षालन-सौकरिकत्व-वागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः । कर-चरण-कर्णादिवर्जिताः पगु-कुब्ज-वामनक-काणकप्रभृतयः शरीरजुङ्गिताः, तेऽपि न दीक्षार्हाः, लोकेऽवर्णवादसम्भवात् १५ ।
तथा अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्तता कृता भवति सोऽवबद्धकः, सोऽपि न दीक्षार्हः कलहादिदोषसम्भवात् १६ ।
तथा रूप्यकादिमात्रया वृत्त्या धनिनां गृहे दिन-पाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो यः स भृतकः, सोऽपि न दीक्षोचितः । यस्यासौ वृत्तिं गृहणाति स दीक्ष्यमाणे तस्मिन् महतीमप्रीतिमादधाति १७ ।
तथा शैक्षस्य दीक्षितुमिष्टस्य निस्फेटिका अपहरणं शैक्षनिस्फेटिका, तद्योगाद् यो माता-पित्रादिभिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षनिस्फेटिका, सोऽपि न दीक्षोचितः । माता-पित्रादीनां कर्मबन्धसम्भवात् अदत्तादानादिदोषप्रसङ्गाच्च १८ । इत्येतेऽष्टादश पुरुषस्य पुरुषाकारवतो दीक्षानीं भेदा इति ॥७९१॥१०७॥
इदानीं 'वीसं इत्थीसु' त्ति अष्टोत्तरशततमं द्वारमाह - जे अट्ठारस भेया पुरिसस्स तहित्थियाए ते चेव । गुम्विणी १ सबालवच्छा २ दुन्नि इमे हुँति अन्ने वि ॥७९२॥ जे अट्ठारस भेया गाहा, येऽष्टादश भेदाः पुरुषेष्वदीक्षणार्हा उक्तास्तथा तेनैव प्रकारेण स्त्रियोऽपि त एव भेदा अष्टादश विज्ञेयाः । अयमर्थ:-यथा पुरुषाकारवतस्तथा स्त्रीजनाकारवतोऽपि व्रतायोग्या बालादयोऽष्टादश भेदास्तावन्त एव । अन्यावपि द्वाविमौ भवतः, यथा गुर्विणी सगर्भा सह बालेन स्तनपायिना वत्सेन वर्तते सा सबालवत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्या: । दोषा अप्यत्र पूर्ववद्वाच्या: ७९२।।१०८॥ इदानी दस नपुंसेसु इति नवोत्तरशततमं द्वारमाह - पंडए १ वाइए २ कीवे ३, कुंभी ४ ईसालुय त्ति य ५ । सउणी ६ तक्कम्मसेवी ७
Jan Education International
For Private & Personal use only
wwwwsainelibrary.org