Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
सवृत्तिके धर्मबिन्दौ
चतुर्थ
परिशिष्टम्
२६४
तथा चरणभावोऽपि चरणपरिणामोऽपि प्राय एतेषां वर्षाष्टकादधो वर्तमानानां न भवति । यत्पुनः सूत्रम् 'छम्मासियं छसु जयं माऊए समन्नियं वंदे [आव.नि.७६४] इत्येवंरूपं तत् आहच्चभावकहगं कादाचित्कभावकथकम्, ततो वर्षाष्टकादधः परिभवक्षेत्रत्वाच्चरणपरिणामाभावाच्च न दीक्ष्यन्ते इति । अन्यच्च बालदीक्षणे संयमविराधनादयो दोषाः । स हि अयोगोलकसमानो यतो यत: स्पन्दते ततस्ततोऽज्ञानित्वात् षड्जीवनिकायवधाय भवति । तथा निरनुकम्पा अमी श्रमणाः यदेवं बालानपि बलाद्दीक्षाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिदन्तीति जननिन्दा । तत्परिचेष्टायां च मातृजनोचितायां क्रियमाणायां स्वाध्यायपलिमन्थ: स्यादिति १।।
तथा सप्ततिवर्षेभ्यः परतो वृद्धो भण्यते, अपरे त्वाहुः-अर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्य उपरि वृद्धोऽभिधीयते । तस्यापि च समाधानादि विशिधानि कर्तुं दुःशकम्, यदुक्तम् - उच्चासणं समीहइ विणयं न करेइ गव्वमुव्वहइ । वुड्डो न दिक्खियन्वो जइ जाओ वासुदेवेणं ॥१॥ इत्यादि । इदं च
टिप्पणानि वर्षशतायुष्कं प्रति द्रष्टव्यम्, अन्यथा यद् यस्मिन् काले उत्कृष्टमायुस्तद्दशधा विभज्याष्टम-नवम-दशमभागेषु वर्तमानस्य वृद्धत्वमवसेयम् २ ।
तथा स्त्री-पुंसोभयाभिलाषी पुरुषाकृतिः पुरुषनपुंसकः । सोऽपि बहुदोषकारित्वाद्दीक्षितुमनुचितः । बाले वुड्ढे य थेरे य इति पाठस्तु निशीथादीष्वदर्शनादुपेक्षितः।
तथा स्त्रीभिर्भोगैनिमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्द वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसो यो न शक्नोति स पुरुषाकृति: पुरुषक्लीबः । सोऽप्युत्कटवेदतया पुरुषवेदोदयाद् बलात्कारेणाङ्गनालिङ्गनादि कुर्यात्, तत उड्डाहादिकारित्वाद्दीक्षाया अनर्ह एव ४। __तथा जङस्त्रिविधो-भाषया शरीरेण करणेन च । भाषाजः पुनरपि त्रिविधो-जलमूको मन्मनमूक एलकमूकश्च । तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः । यस्य तु वदतः खञ्च्यमानमिव वचनं स्खलति स मन्मनमूकः । यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः | तथा यः पथि भिक्षाटने वन्दनादिषु चाऽतीव स्थूलतया अशक्तो भवति स शरीरजङ्कः । करणं क्रिया, तस्यां जड: करणजङ्कः, समिति-गुप्ति-प्रतिक्रमण-प्रत्युपेक्षण-संयमपालनादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजङ इत्यर्थः । तत्र भाषाजस्त्रिविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यते । शरीरजकुस्तु मार्गगमनभक्तपानाद्यानयनादिषु असमर्थो भवति । तथा अतिजडस्य प्रस्वेदेन कक्षादिषु
२५
Jain Education International
For Private & Personal use only
www.jainelibrary.org
Loading... Page Navigation 1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379