Book Title: Dharmabinduprakaranam
Author(s): Haribhadrasuri, Jambuvijay, Dharmachandvijay, Pundrikvijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
वृत्ति धर्मबिन्दौ
चतर्थं परिशिष्टम्
२६३
Jain Education International
दृष्ट्वा ईर्ष्या मैथुनाभिलाष उत्पद्यते सोऽपि निरुद्धवेदः कालान्तरेण त्रैराशिको भवति । शकुनी वेदोत्कटतया गृहचटक इवाऽभीक्ष्णं प्रतिसेवनां करोति । तत्कर्मसेवी नाम यदा प्रतिसेविते बीजनिसर्गो भवति तदा श्वान इव तदेव जिह्वया लेढि, एवं विलीनभावमासेवमानः सुखमिति मन्यते । पाक्षिकापाक्षिकस्तु स उच्यते यस्यैकस्मिन् शुक्ले कृष्णे वा पक्षेऽतीव मोहोदयो भवति, द्वितीयपक्षे तु स स्वल्पो भवति ॥५१६६ ॥
सौगन्धिको नाम सागारिकस्य गन्धं शुभं मन्यते, स च सागारिकं जिघ्रति मलयित्वा वा हस्तं जिघ्रति । आसित्तो नाम स्त्रीशरीरासक्तः, स मोहोत्कटतया योनौ मेहनमनुप्रविश्य नित्यमास्ते । एते सर्वेऽपि निरुद्धवस्तयः कालान्तरेण नपुंसकतया परिणमन्ति । एते च पण्डकादयो दशापि प्रव्राजयितुमयोग्याः । तथा वर्द्धितो नाम यस्य बालस्यैव च्छेदं दत्त्वा द्वौ भ्रातरावपनीतौ । चिप्पितस्तु यस्य जातमात्रस्यैवाङ्गुष्ठ-प्रदेशिनी - मध्यमाभिर्मलयित्वा वृषणद्वयं गालितम् । अपरस्तु मन्त्रेणोपहतो भवति । अन्यः पुनरौषध्या उपहतः । कञ्चिद् ऋषिणा शप्तो भवति मम तपः प्रभावात् पुरुषभावस्ते मा विशिष्टानि भूयात् । एवमपरो देवेन रुष्टेन शप्तः । एते वर्द्धितादयः षडपि यद्यप्रतिसेवकास्तदा प्रव्राजयितव्याः || ५१६७ ||" इति क्षेमकीर्तिसूरिविरचितवृत्तियुक्ते टिप्पणानि बृहत्कल्पभाष्ये पृ० १३७४-१३७५।।
तुलना - " इदानीम् अट्ठारस पुरिसेसुं ति सप्तोत्तरशततमं द्वारमाह - बाले १ वुड्ढे २ नपुंसे य ३, कीवे ४ जड्डे य ५ वाहिए ६ । तेणे ७ रायावगारी य ८, उम्मत्ते य ९ अदंसणे १० ॥ ७९०॥ दासे ११ दुट्टे य १२ मूढे य १३, अणत्ते १४ जुंगिए इ व १५ । ओबाए य १६ भयए १७, सेहनिप्फेडिया इ य १८ ।। ७९१।। [ निशीथभाष्ये ३५०६ - ७, पञ्चकल्पमहाभाष्य २००-१] बालेत्यादि श्लोकद्वयम्, जन्मत आभ्य अष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते । स किल गर्भस्थो नव मासान् सातिरेकान् गमयति जातोऽप्यष्टौ वर्षाणि यावद्दीक्षां न प्रतिपद्यते । वर्षाष्टकादधो वर्तमानस्य सर्वस्यापि तथास्वाभाव्याद्देशतः सर्वतो वा विरतिप्रतिपत्तेरभावात् । उक्तं च - एएसि वयपमाणं अट्ठ समाउत्ति वीयरागेहिं | भणिअं जहन्नगं खलु [पञ्चव.गा. ५०] इति । अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षां मन्यन्ते । यदुक्तं निशीथचूर्णी - आदेसेण वा गब्भट्ठमस्स दिक्ख [गा. ३५४३] त्ति । भगवद्वज्रस्वामिना व्यभिचार इति चेत्, तथाहि भगवान् वज्रस्वामी षाण्मासिकोऽपि भावतः प्रतिपन्नसर्वसाक्द्यविरतिः श्रूयते । तथा च सूत्रम् - छम्मासियं छसु जयं माऊए समन्नियं वंदे [ आव. नि. ७६४ ] | सत्यमेतत्, किन्त्वियं शैशवेऽपि भगवद्वज्रस्वामिनो भावतश्चरणप्रतिपत्तिराश्चर्यभूता कादाचित्कीति न तया व्यभिचारः । उक्तं च पञ्चवस्तुके - तदधो परिहवखेत्तं न चरणभावोऽवि पायमेएसिं। आहच्चभावकहगं सुत्तं पुण होइ नायव्वं ||१|| [गा. ५१] अस्या व्याख्या - तेषामष्टानामधो वर्तमाना मनुष्याः परिभवक्षेत्रं भवन्ति । येन तेन वाऽतिशिशुत्वात्परिभूयन्ते,
For Private & Personal Use Only
२६३
www.jainelibrary.org
Loading... Page Navigation 1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379